________________
५३२
तत्त्वसहः। . वा, अव्युत्पन्नस्यापि प्रतीतिप्रसङ्गात् । यथेष्टमर्थेषु नियोगाभावप्रसङ्गाश्च । किंचअनित्यादिरूपेणार्थस्याविशेषेऽपि न विकल्पः सर्वानाकारान्युगपद्विकल्पयति । आकारान्तरव्यवच्छेदेन प्रतिनियतैकाकारोपग्रहेणैव विकल्पस्योत्पत्तेः । अतश्चैकाकारविकल्पेन कारणं वक्तव्यम् । न चाभ्यासाचदन्यद्वक्तुं शक्यम् , यथा कुणपादिविकल्पा-* नाम् । ततश्च पूर्वाभ्यासवशेन विकल्पकस्य प्रवृत्तेरनादिर्विकल्पकबुद्धिरिति सिद्धम् । अथाविकल्पिकेति पक्षस्तदा न कदाचिद्विकल्पिका बुद्धिरुत्पद्यते । प्रोक्तनीत्या सङ्केतवशादुत्तरकालमुत्पद्यत इति चेन्न । निर्विकल्पकज्ञाने स्थितस्य अंशः (पुंसः?) सङ्केतस्य कर्तुमशक्यत्वात् । तथाहि न यावच्छब्दसामान्यमर्थसामान्यं वा बुद्धाववभासते न तावत्सङ्केतः शक्यते कर्तुम् । नच विकल्पे विज्ञाने सामान्यं प्रत्यवभासते । यच प्रत्यवभासते स्खलक्षणं न तत्र तेन वा सङ्केतः क्रियते । व्यवहारार्थत्वात्तस्य । न च सङ्केतकालदृष्टस्य स्खलक्षणस्य व्यवहारकालेऽस्ति संभव इति न स्खलक्षणे सङ्केतकरणात्पूर्व विकल्पोऽवश्याभ्युपगन्तव्यः । स चाभ्यासमन्तरेण न सिद्ध्यतीति सिद्धाऽनादिता । अपि च-यदि पूर्वजन्माभ्यासाहितवासनांन्वयात्प्रथमजन्मभाविनी नेष्यते बुद्धिस्तदा सद्योजातस्य सतः शिशोस्तिर्यग्गतस्यापीदं सुखस्य साधनमिव दुःखस्येति व्यवसायः कथं भवेत् । येन सुखसाधनं स्तनादिकमन्विच्छति । तचालभमानो रोदनमारमते, प्राप्य च सहसा व्यपगतरुदितोऽभ्यवहारादिक्रियां कुरुते । न ह्यनेन कदाचित्स्तनादेः क्षुत्पीडायुपशमनादिहेतुत्वमनुभूतम् । नचापि प्रपातपतनादेरुपहतिकारणता । येन सद्यो जातोऽपि वानरादिशिशुरवपातपतनप्रभवदुःखान्मरणभीतो मातुरतीव क्रोडमाश्लिष्यति, प्रपातादिस्थानं च परिहरति । न घननुभूतेष्टानिष्टसाधनफलानि नियमेन जिहासन्त्युपादित्सन्तेवाऽतिप्रसङ्गात् । अयसोऽयस्कान्तापसर्पणदृष्टान्तोऽप्ययुक्त एव, नहि तनिर्हेतुकं, सर्वदा सत्त्वादिप्रसझात् । सहेतुकत्वे वा यथा तस्य हेतुरयस्कान्तो निर्दिश्यतेऽन्वयव्यतिरेकसिद्धस्तथाऽस्यापि हानोपादानानुष्ठानस्य हेतुर्भाव्यः । नचासो निर्देष्टुं शक्यते, अन्यत्राभ्यासात् । तस्मात्पूर्वाभ्यासकृत एवायं बालानामिष्टानिष्टोपादानपरित्यागलक्षणो व्यवहार इति सिद्धा बुद्धरनादितेत्यमिप्रायः । तथाच स्वतत्रा मानसीयादिना, अपिच स्तनपानादावित्यादिना च साधारणं दूषणं वक्ष्यतीत्यलं बहुना । किंच-तेषांचार्वाकाणां क्षणिकत्वमभ्युपगच्छताम् , खोपगमः-खसिद्धान्तो बाध्यते-भूतानां निलस्वाभ्युपगमो बाध्यते ।) ॥ १८८६ ॥ १८८७ ॥