________________
पत्रिकासमेतः। णम् । अपि तु मनस्कारविशेषसापेक्षमिति निश्चीयते । अन्वयव्यतिरेकसमधिगम्यत्वात्कार्यकारणभावस्य । न चापि यतो यत्प्रथमतरमुत्पद्यमानं निश्चितं तत्ततोऽन्यस्मात्प्रथमतरमुदयमासादयत्यहेतुकत्वप्रसङ्गात् । धूम इवानमेः । प्रथमतरं चाक्षबुद्विरुत्पद्यमानाऽनुगुणमनस्कारसापेक्षैवोत्पद्यत इति । तस्मान्न केवलमिन्द्रियमस्याः कदाचित्कारणमिति सिद्धम् । अन्यथा निर्हेतुकत्वप्रसङ्गो बाधकं प्रमाणम् । नापि मनोबुद्धिरिति पक्षः। नहि साऽक्षरनुपलब्धेऽर्थे स्वातत्र्येण प्रवर्त्तते, अन्धबधिरायभावप्रसङ्गात् । प्रवर्ततां वा, किं सा सविकल्पिका, आहोस्विदविकल्पिकेति वक्तव्यम् । तत्र न तावदाद्यः पक्षः । तथाहि-विकल्पः प्रवर्त्तमानः सर्व एव बोधकशब्दाकारानुस्यूत एव वर्त्तते, अन्तर्जल्पाकारतया नित्यमनुभूयमानत्वात् । सा च वाचकशब्दाकारता विकल्पस्य सङ्केताहणवशाद्वा भवेत् , यद्वा वाचकात्मनः शब्दरूपस्य ज्ञानात्मधर्मरूपत्वादोधरूपवच्छब्दार्थग्रहणाद्वेति विकल्पात् । तत्र न तावसङ्केतग्रहणादिति पक्षः, पूर्व सङ्केतस्यागृहीतत्वात् । नापि द्वितीयः पक्षः । तथाहि -द्विविधः शब्दात्मा स्खलक्षणरूपः सामान्यलक्षणरूपश्च, तत्र यस्तावत्खलक्षणरूपस्तस्यावाचकत्वानुभवाकारतया ज्ञानस्य सविकल्पकत्वं नाप्यसौ ज्ञानस्यात्मगतो धर्मो नीलादिवद्वहीरूपेण भासनात्। अन्यथा हि नीलादीनामपि ज्ञानधर्मत्वं स्यात्। अविशेषात् । ततश्च विज्ञानमात्रमेव विश्वं स्यात् न भूतपरिणामरूपम् । ननु साकारज्ञानपक्षे नीलादिप्रकारो ज्ञानस्यात्मगत एव धर्मो बहीरूपेण भासते तत्किमुच्यते बहीरूपेण भासनाज्ज्ञानात्मधर्मो न भवतीति । सत्यमेतत् । किंतु बाह्यार्थोपरागितया ज्ञानस्य तथा प्रतिभासनानात्मगतोऽसौ ज्ञानस्येति व्यवस्थाप्यते । किं तर्हि ? । बाह्यस्यैवेति । तत्रैव तस्य निजत्वात् । ज्ञाने तु तस्यार्थोपधानकृतत्वेनागन्तुकत्वात् । तस्मान खलक्षणरूपः शब्दात्मा वाचको नाप्यसौ ज्ञानात्मधर्मः । सामान्यलक्षणरूपस्तु यद्यपि वाचकस्तथाप्यसौ ज्ञानात्मधर्मो न भवति । बाह्यपरशब्दस्खलक्षणश्रोश्रावसेये तस्य योज्यमानत्वात्, न ज्ञानात्मनि । न बन्यगतं सामान्यमन्यत्र योज्यते, ज्ञानेऽतिप्रसङ्गात् । एवं हि गोत्वमश्वादावपि योज्येत । नचागृहीतशब्दखलक्षणे धर्मिणि तद्धर्मो वाचकात्मा योजयितुं शक्यते । धर्माणां धर्मिपरतत्रतया खातब्येणाग्रहणात् । नापि विकल्पेन स्खलक्षणात्मा धर्मी प्रहीतुं शक्यते । तस्य सामान्यलक्षणविषयत्वात् । तस्मादनादिस्खलक्षणानुभवाहितवासनाप्रबोधजन्मानो विकल्पा इति सिद्धम् । नापि शब्दार्थग्रहणादिति पक्षः, न अर्थे शब्दाः सन्ति तदात्मानो