________________
प्रथमतरं वा नियतचक्षुरादिविज्ञानसमनन्तरमुदयमासादयन्ती मनोधीरनुभूयत इति । अतोऽप्रतिनियतविज्ञानमात्रभाविनीति सिद्धम् । किंच-यदि प्रथमकाल एव मनोमतेरुपादानकारणं देहो नोत्तरकालं तदा देहनिरपेक्षा सा किं न प्रवर्तेत, नानुपकारिणि देहे तस्याः काचिदपेक्षा युक्ता । यस्यापि तद(वी)बुझ्यन्तरपूर्विका बुद्धिस्तस्यापि केवला किं न प्रवर्तत इति चेन्न । प्रवर्तत एव । यथा विरूपे घातौ । याऽनुरूपे स्पृहावती सा तत्सापेक्षा वर्चत इत्यनुपालम्भ एव । अथोत्तरकालं देहस्याप्युपकारित्वमङ्गीक्रियते तदाऽनेकविज्ञानप्रबन्धप्रसवप्रसङ्गः । शरीरस्यापरविज्ञानो. पादानभूतस्याविकलस्य तन्जनकत्वेनावस्थितत्वात् । तथाहि यद्यदेवोत्पद्यते देहाद्विज्ञानं तत्तदपरं पृथक्पृथग्विज्ञानं सन्तनोतीत्येकस्य प्राणिनः प्रतिक्षणमप्रमेयविज्ञानसन्तानाः प्रसूयेरन् । नचैवमनुभवोऽस्ति । अथापि स्यादुत्तरकालं देहस्य नोपादानकारणत्वेन पृथगुपकारित्वमिष्टम् । किं तर्हि ? । प्रबन्धेन खोपादानतः प्रवर्त्तमानाया मनोधिय उत्तरोत्तरकार्यप्रसवं प्रति सहकारित्वादुपकारी देह इत्यतो न देहनिरपेक्षा सा प्रवर्तत इति । एतदपि मिथ्या । नहि यो यस्य यथा जनकत्वेन प्रसिद्धः स तं जनयन्नन्यथा जनयति विशेषाभावात् । तथाह्यालोकादिरनुपहतचक्षुर्विज्ञानं प्रत्यालम्बनभावेन जनकत्वमनुभूय न पुनस्तस्यान्यथा जनको भवति । यदाह-"प्राह्यताया न खल्वन्यजननं ग्राहलक्षणम् । साक्षान ह्यन्यथा बुद्धे रूपादिरुपकारक” इति । अन्यथा कार्यस्य कारणकृतस्वभावभेदाभेदस्य व्यवस्थानं न स्यात् , तद्गतोपकाराननुविधानात् । ततश्चाहेतुकत्वप्रसङ्गः । नच. प्रथमकालं देहस्य विज्ञानं प्रति साक्षाजनकत्वव्यतिरेकेणान्यदुपादानत्वं त्वया गृहीतम् । किं तर्हि । साक्षादुपकारित्वमेव । तच्चोत्तरकालमप्यस्तीति किं नोपादानकारणं स्यात् । अथान्यत्पूर्वमपि माभूत्पश्चाद्वदविशेषात् । नचोत्तरकालमपि पूर्वविज्ञानसहकारी देह एवोत्तरोत्तरबुद्धेरुपादानं भविष्यतीति शक्यं वक्तुम् , पूर्व विस्तरेणोपादानत्वस्य निषिद्धत्वात् । प्रथमजन्मबुद्धरपि बुद्ध्यन्तरपूर्वकत्वप्रसङ्गात् । अतएवानित्यभूतपक्षेप्येतदाचार्यायं दूषणं सुतरां श्लिष्यति । यदाह-"देहात्सकृदुत्पन्ना धीर्यदि खजात्या नियम्यते। (१) परतश्चेत्समर्थस्य देहस्य विरतिः कुत" इति । तस्मात्सिद्धा मनोबुद्धरनादिता । अथवा सर्वैव बुद्धिरविशेषेणानादिः सिद्धा । तथाहि-आदिबुद्धिर्भवन्ती, अक्षबुद्धिर्वा भवेत् , मनोबुद्धिर्वा । न तावदाद्यः पक्षः, सुप्तमूर्छान्यचित्तानां सत्यप्यक्षेत्रगुणमनस्काराभावादक्षबुद्धेरनुत्पतेः। अतो न केवलमिन्द्रियमक्षबुद्धः कार