________________
AR
पलिकासमेतः। हकमुपपातकं चेत्यात्मोपकारकप्रतिकृत्यादिविकल्पस्ततस्तत्परितोषदौमनस्यादिसम्भवस्तस्साच सुखादिविषयाध्यवसायादिप्रसूतय इत्येतच्चान्वयव्यतिरेकाभ्यां प्रतीतमेव । सौमनस्यादिसम्भव एव रागादिदर्शनात् , सत्यपि पुष्ट्यादौ तदसम्भवे चादर्शनात् । • अतो न पुष्ट्यादि साक्षान्मनोमतेर्विकारकम् । अत एव च साक्षादनुपकारित्वात्सहकारिकारणमपि न देहस्तस्या इति सिद्धम् । साक्षादेवोपकारिणामकुरादिषु क्षित्यादीनां सहकारित्वप्रसिद्धेः, अन्यथाऽतिप्रसङ्गः स्यात् । तस्मात्सजातीयपूर्वबीजप्रबोधप्रवृत्तय एव रागादयः । देहपुष्टियौवनकालादयस्तु केषांचित्प्रतिसङ्ख्यानाभ्यासविकलानां तद्वासनाप्रबोधहेतवो भवन्ति । भवतु वा साक्षादुपकारी देहो मनोमतेः खोपादानप्रवृत्तायाः कदाचित् । तथाऽपि न देहनिवृत्तावपि तस्या निवृत्तिः सिद्ध्यति। यथा वह्निनिवृत्तावपि न घटादिविनिवृत्तिः खोपादानप्रवृत्तत्वादिति नानिष्टापत्तिः । नाप्यनैकान्तिकता हेतोरतिप्रसङ्गात् । नापि विरुद्धता सपक्षे भावात् । अतो नोपादानकारणं देहः । नापि सहकारिकारणमिति सिद्धं मनोमतेः पूर्वपूर्वबुद्धिप्रभवत्वमेव । स्यादेतत्-ययोः सहस्थितिनियमस्तावुपादानोपादेयभूतौ यथा प्रदीपप्रभे । अस्ति च सहस्थितिनियमः शरीरमनोविज्ञानयोरिति स्वभावहेतुः । तदयमन्यतरासिद्धो हेतुः । विरूपे धातौ शरीरमन्तरेणापि मनोमतेरवस्थानाभ्युपगमात् । नापीष्टसिद्धिर्मनोमतेरपि देहं प्रत्युपादानत्वप्रसङ्गात् । अनैकान्तिकता च । हेतुभेदादपि सहावस्थानसम्भवात् । यथाऽग्निताम्रद्रवत्तयोः । तथाहि वह्निसहकारितानं द्रवत्तामारभते, न केवलम् , एवमिहापि देहस्योपादानं कललादि मनोविज्ञानसहकारि देहमुत्तरमारभते, इत्यतस्तयोः सह स्थानं नोपादानोपादेयभावादित्यतोऽनेकान्त एव । अथापि स्यात्-यद्यप्युत्तरकालं मनोधीः पूर्वपूर्वबुद्धिप्रभवा भवति, तथापि या प्रथमकालभाविनी तस्या देहोपादानत्वादतो नाऽनादित्वसिद्धिरिति । तदेतदसम्यक् । न ह्यस्याः कल्पनायाः किंचित्साधकं प्रमाणमस्तीति प्रतिपादितमेतत् । बाधकमपि नास्तीति चेन्न । विद्यत एव बाधकम् । तथाहि-यदि देहात्सकदुत्पन्ना सती मनोधीः पश्चात्सजातिसमुद्भवा स्यात्तदोत्तरकालं सर्वदैव पूर्वपूर्वमनोविज्ञानसमुद्भवैव स्यात्, न विजातीयचक्षुरादिविज्ञानसमुद्भवा, न हि धूमोऽमेः सदुद्भूय पश्चादन्यतो विजातीयादुद्भवति । नच मनोमतिरुचरकालं मनोविज्ञानसमुद्भवैवानुभूयते । किं तर्हि । अनियतसमनन्तरप्रत्ययप्रसवा । नच यद्यतः प्रथमतरमुदयमासादयत्समुपलब्धं तत्ततोऽन्यतो भवितुमर्हति, आहेतुकत्वप्रसङ्गात् ।