________________
५२८
तस्वसङ्कहा।
सुनः केनचित्प्रतिघातः शक्येत कर्तुम् । यथा घटादेहत्तरस्योत्पत्स्यमानस्य कार्यस्य पूर्वकं मृदात्मानमप्रतिबद्ध्य (ख्या ?) समर्थक्षणोत्पादनतः शक्यते न विकारापादानं(?) कर्तुम् । सर्वत्रैव च विकारोत्पादनेऽयमेव क्रमो यदुतासमर्थान्तरोपादानक्षणोत्पादनम् (?) । अन्यथा न किंचित्साक्षाद्विरुद्धं सम्भवति । यदि हि सम्भवेत् कार्यस्यापि कारणविकारापादनवत्साक्षाद्विकारापादनं स्यात् , नोपादानविकारापादनद्वारेणैव । यत्पुनः प्रदीपमधिकृत्यैव देशान्तरवर्त्तिन्यास्तत्प्रभाया अन्तरावरणेन विकारापादनं क्रियते, तन्न तस्याः साक्षात्प्रदीप उपादानकारणम् । किं तर्हि ? । पूर्वपूर्वः प्रभाक्षणः । तथैवासमर्थक्षणान्तरोत्पादनलक्षणविकारापादनात् । आवरणेन प्रभा प्रतिहन्यते । यत्पुनर्वस्त्वधिकृत्यैव यद्विकार्यते न तत्तदुपादानं, यथा गवयमविकृत्य गौर्विकार्यमाणः । अविकृत्य च शरीरं मनोमतेरनिष्टाचरणादिना दुर्मनस्कतादिलक्षणस्य विकारस्योपादानं क्रियत इति व्यापकविरुद्धोपलब्धिः। ननु चाहा. रखापा(पाका ?)दिना देहस्य पुष्लादिविकारे सति रागादिलक्षणा मनोमतेर्विकारापत्तिदृश्यत एव । यदि नाम दृश्यते ततः किम् । न तावता हेतोरसिद्धत्वम् । तथाहि-यदविकारेऽपि यस्य विकारापादनं संभवति न तत्तदुपादानमित्येतावन्मात्रमिह विवक्षितम् । संभवन्ति च कस्यचिदवस्थायामनिष्टाचरणादिना देहविकारापादनमन्तरेणैव बुद्धेर्विकारापादनमिति कुतोऽसिद्धत्वं हेतोः । नचाप्येवम्भूतात्कादाचित्कात्तदीयविकारानुविधानात्तदुपादनत्वं युक्तमतिप्रसङ्गात् । एवं हि विषयस्याप्युपादानत्वं स्यात् । तथाहि-शार्दूलशोणितादिबीभत्सविषयदर्शनादिबलेनापि कस्यचित्कातरमनसः संजायत एव मोहादिलक्षणो मनसो विकारः, न चैतावता सा मनोमतिस्तदाश्रिता भवति । कामशोकादिवितर्केण च मनस्युपहते देहविकारदर्शनादेहस्यापि तदुपादानताप्रसङ्गात् किन्तु नियमेन साक्षाच यस्यैव यो विकार. मनुविधत्ते स तदुपादानो युक्तः । नच रागादिलक्षणो विकारो नियमेन शरीरपोपादितो भवति । कस्यचित्परिपुष्टशरीरस्यापि प्रतिसयानवतोऽसम्भवात् । तथा परिक्षीणवपुषोऽप्ययोनिसौमनस्कारबहुलस्य पुंसस्तिर्यग्गतस्य च कस्यचिदपचितपरिमाणस्याप्यतीव रागादिदर्शनात् । नच यदभावेऽपि यद्भवति सत्तस्य कार्य युक्तमतिप्रसङ्गात् । नापि साक्षादेहाद्रागादिः संभवति, अयोनिसौमनस्कादिव्यवहित. त्वात् । तथाहि-देहपुष्टौ सत्यामन्तश्चेष्टव्यलक्षणविषयोपजनितसुखायनुभवः । तत्रामदेवततलिन्सुझादौ तसाधने व नित्यादिविपर्यासपरिगतमनसो ममेवमनुपा