________________
पखिकासमेतः।
५२.
तस्य पूर्वनिषिद्धत्वात् । चतुर्महाभूतात्मकत्वहानिप्रसङ्गाश्च न टेकस्य स्वभावचतुष्टयं युक्तमनेकव्यवहारोच्छेदप्रसङ्गात् । न(च) स्यादनेकपरमाणुसंचयात्मकोऽङ्गीकर्तव्यः । ते च परमाणवः प्रत्येकं वा हेतवः स्युः समुदिता वा । न तावत्प्रत्येकं, प्रतिबीजाकरोत्पादवत्प्रतिपरमाणुविकल्पोत्पत्तिप्रसङ्गात् । नापि समुदिताः, नासिकायेकाङ्गवै. कल्येऽपि मानसानुत्पादापत्तेः, क्षित्यादीनामन्यतरापायेऽडरानुत्पत्तिवत् । नहि सामग्रीप्रतिबद्धं कार्यमन्यतराभावे भवति, तत्प्रतिबद्धस्वभावत्वहानिप्रसङ्गात् । अथ यथा सन्निधानं सर्वेऽपि चैतन्यस्य हेतवः। एवं तर्हि विकलाविकलाङ्गदेहजनितयोर्विशेषेण भवितव्यं कारणभेदात् । अन्यथा कार्यस्य भेदो निर्हेतुकः स्यात् । न वाऽविकलाङ्गस्य सतः पश्चाद्विकलाङ्गतायामुपजातायां कश्चिन्मनोमतेर्विशेषोऽस्ति । श्रुतादिसंस्कारस्य तदानीमप्यविकलस्यैवानुवृत्तेः। गजादिदेहवर्तिनी च मनोमतिरतिशयवती प्राप्नोति, न मनुष्यधीः । ये बाल्यशरीरमनुजन्मानस्ते मन्दधियः, महाशरीरास्तु पटुधियः। कारणस्य निर्हासातिशयाभ्यां कार्यस्य निर्हासातिशययो. गदर्शनात् । नहि यद्भेदाद्यस्य भेदो न भवति, तत्तस्य कार्य युक्तमतिप्रसङ्गात् । कार्यभेदस्य च निर्हेतुकत्वप्रसङ्गाच्च । नापि सेन्द्रिय इति पक्षः । तथाहीन्द्रियात्प्रत्येक वा मनोमतिः स्यात्समस्ताद्वा । न तावत्प्रत्येकम् , एकैकेन्द्रियापायेऽपि मनोमतेरविकलत्वात् । तथाहि-प्रसुप्तिकादिरोगादिना कार्येन्द्रियादीनामुपघातेऽपि मनोधीरविकृतैकाऽविकलां स्वसत्तामनुभवति । नच यस्य विकारेऽपि यन्न विक्रियते तत्तत्कार्य युक्तमतिप्रसङ्गात् । किंच-चक्षुरादिविज्ञानवत्प्रतिनियतार्थप्राहिता निविकल्पकत्वमर्थसन्निधानसापेक्षप्रवृत्तिकता च प्राप्नोति, अमिन्नकारणत्वात् । युगपदनेकविकल्पोत्पत्तिप्रसङ्गाच्च । नापि समस्तादिति पक्ष:-एकेन्द्रियाभावेऽप्यभावप्रसङ्गात् । एकसहकार्यपायेऽङराद्यपायवत् । नाप्यनिन्द्रिय इति पक्षः, कलेवरच्युतस्यापि पाण्यादेस्तद्धेतुत्वप्रसङ्गात् । विशिष्टस्य हेतुत्वे सेन्द्रिय एवेष्टः स्यात् । नहि सेन्द्रियादन्यो विशिष्टः शक्यते दर्शयितुम् । नाप्युपादनकारणमिति पक्षः । तथाहि -यः कार्यगताशेषविशेषानुयायिनः स्वभावस्य सदा चात्मसत्ताप्रत्युपस्थानतस्तदुपकारी यस्य विकारापादनमन्तरेण कार्यमशक्यविकारं स एव कारणविशेष उपादानत्वेन प्रसिद्धः । यथा पूर्वपूर्वो मृदात्मा कलाप उत्तरोत्तरस्य घटसंशितस्य कार्यकला. पस्योपादानम् । अत एव यो यद्विकारयितुमिच्छति स तदुपादानविकारेणैव तद्विकारयति नान्यथा । न छुपादाने पूर्वस्मिन्न प्रतिबद्धसामर्थे, सति कार्यस्योत्तरसोलि