________________
तत्त्वसङ्ग्रहः। प्राप्तानुपलम्भोपदर्शने तु सा निषिद्धा भवति । तत्र तस्या व्यभिचारात् । एवं तापदन्वयात्कार्यनिश्चयः । व्यतिरेकादपि कार्यनिश्चये सत्सु तदन्येषु समर्थेषु तद्धेतुषु यस्सैकस्याभावे न भवतीत्येवमाश्रयणीयम् , अन्यथा हि केवलं तदभावे न भवतीन्युपदर्शने सन्दिग्धमत्र तस्य सामर्थ्य स्यात् , अन्यस्यापि तत्समर्थस्याभावात् , ततश्चैवमपि सम्भाव्येत-अन्यदेव तत्र समर्थमस्ति, तदभावात्तन्निवृत्तं, यत्पुनरेतनिवृत्तौ सत्यामस्य निवृत्तिरुपलभ्यते सा यदृच्छासंवादः । मातृविवाहोचितदेशजन्मनः पिण्डखजूंरस्यान्यत्र देशे मातृविवाहाभावे सत्यभाववत् । तस्मात्समर्थेष्विति विशेषणीयम् । एवं हि तस्यैव कारणत्वं निश्चीयते, तद्व्यतिरेकस्यैवानुविधानात् । नह्यनुपकारिणो व्यतिरेकः केनचिनुविधीयतेऽतिप्रसङ्गात् । एवमन्वयव्यतिरेकाभ्यामसंदिग्धं कार्यकारणत्वं प्रतीयते नान्यथा । न चेदृशोऽन्वयो व्यतिरेको वा कायचित्तयोनिश्चितोऽस्ति । तथाहि-न तावत् स्वदेहबुद्ध्योरन्वयनिश्चयः शक्यते कर्तु गर्भादौ प्राश्चित्तोत्पत्तेः केवलकायोपलम्भाभावात् , नहि चित्तमन्तरेणोपलम्भो भवति । परशरीरेऽपि चेतसोऽनुपलब्धिलक्षणप्राप्तत्वान्न पौर्वापर्यग्रहणमस्ति । ततो नान्वयनिश्चयः । नापि व्यतिरेकनिश्चयः । तत्रापि हि न तावदात्मदेहव्यतिरेकेण स्वबुद्धिव्यतिरेको ज्ञातुं शक्यः, सर्वथा स्वयमभावात् । नापि परदेहव्यतिरेकेण तत्सम्बन्धिन्या बुद्धेर्व्यतिरेको निश्चेतुं पार्यते। तद्बुद्धेरनुपलब्धिलक्षणप्राप्तत्वेन देहनिवृत्तावपि बुद्धिव्यतिरेके संशयात् । अतएव कुट्यादौ देहाभावेऽपि न बुद्धिव्यतिरे. कनिश्चयः । तत्रापि तत्सत्तायामनुपलब्धिलक्षणप्राप्तत्वेन संशयात् । परिस्पन्दादिकार्य(यो ?)दर्शनादप्यभावनिश्चयो न युक्तः, नावश्यं (हि) कारणानां कार्यवत्त्वात् (स्वम् ?) अपिच देहविशेषपरिप्रहहेतोस्तृष्णाविपर्यासलक्षणस्य स्वकारणस्याभावाकि तत्र कुट्यादौ बुद्धेरभाव आहोखिदेहव्यतिरेकादिति संशयः । तस्मान्नासिद्धो हेतुः । नापि. विरुद्धः सपक्षे भावात् । नाप्यनैकान्तिकोऽतिप्रसङ्गात् , प्रेक्षावत्वहानिप्रसङ्गाच । तव तर्हि बुद्धेन देहः कारणमित्यत्र किं बाधकं प्रमाणमिति चेन्न, समस्त्येव प्रमाणम् । तथा च मनोमतेर्न देहः कारणमित्यत्र स्वतत्रा मानसी बुद्धिरित्यादिना प्रमाणमुपदर्शयिष्यति । तस्या एव देहान्तरप्रतिसन्धानं प्रत्याधिपत्त्याइहानाश्रितत्वे सिद्धे परलोकसिद्धेः। किंच-मनोमतेदेहः कारणं भवतु, एकोऽवयवि. रूपो वा भवेदनेको वा परमाणुसंचयात्मकः, यद्वा-सेन्द्रियोऽनिन्द्रियो वा, किमुपादानकारणमाहोस्वित्सहकारिकारणमिति विकल्प्यते तत्र न तावदेकोऽवयवी युक्तः,