________________
पत्रिकासमेतः। नवर्विज्ञानहतुकं वेति पश्च पक्षाः । यदि हि स्वसन्तानवर्तिपूर्वपूर्वज्ञानहेतुकं पूर्व मेव चित्तं स्यात्तदा स्यादनादिता चित्तसन्ततेर्नान्यथेत्यभिप्रायेणैषां पक्षाणामुपन्यासः। तत्र न तावदाद्यः पक्षो नित्यसत्त्वादिप्रसङ्गात् । अपेक्षया हि भावा: 'कादाचित्का भवन्ति, यश्च निर्हेतुकः स न किंचिदपेक्ष्यत इति किमिति विरमेत । नापि द्वितीयपक्षोऽत एव नित्यसत्त्वप्रसङ्गात् । कारणवैकल्याद्धि कार्याणामसत्त्वं, यबाविकलकारणं तत्किमिति न भवेदिति वक्तव्यम् । नापि तृतीयः पक्षः, कस्मात् ?, सदभावत:-सदा सत्त्वाभावतः। एकमित्यादिना तमेव तदभावं दर्शयति । अनेन प्रतिक्षायाः प्रत्यक्षे विरोधमाह । क्षोणीत्यादिना चतुर्थ पक्षं निराकरोति । क्षोणी -पृथिवी । नित्येश्वरादिहेतुसमुद्भवपक्षवदत्रापि तुल्यो दोषः, यतो महाभूतचतुष्टयं परैनित्यमिष्टम् । नच सहकारिकारणापेक्षणानुक्रमेण नित्यादुत्पत्तिरिति युक्तं वक्तुम् , नित्यस्यानुपकारिणि सहकारिणि नापेक्षेति निर्लोठितप्रायत्वात् ॥ १८७८ ॥ ॥ १८७९ ॥ १८८० ॥ १८८१ ॥ १८८२ ॥ १८८३ ॥ १८८४ ॥ १८८५॥
अथ क्षणिकमेवेदं परैरप्यभिधीयते। कथं खोपगमस्तेषामेवं सति न बाध्यते ॥ १८८६ ॥ बाध्यतां काममेतत्तु न्याय्यमित्युपगम्यते ।
क्षणिकं सर्वयुक्तिभ्यः सर्वभावविनिश्चितम् ॥ १८८७ ॥ अथेदं महाभूतचतुष्टयं परैश्चार्वाकैः क्षणिकमभ्युपगम्यते यथोक्तदोषभयात् तदाऽपि दोष एवेत्यभिप्रायः । तथाहि न तावद्बुद्धिदेहयोः कार्यकारणभावसिद्धौ किंचित्प्रमाणमस्ति, परस्य येन तद्व्यवहारः सिद्ध्येत् । प्रयोग:-यत्र यद्भावसिद्धी न किंचित्प्रमाणमस्ति न तत्र तद्व्यवहारः प्रेक्षावता कार्यः, यथा वही शीतव्यवहारः । नास्ति च बुद्धिदेहयोः कार्यकारणभावसिद्धौ किंचित्प्रमाणमिति व्यापकानुपलब्धिः । नचासिद्धता हेतोः, तथाहि-प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः स चान्वयान्यतिरेकाद्वा विशिष्टादेव निश्चीयते, न दर्शनादर्शनमात्रेण । तत्रान्वयाकार्यनिश्चये कर्तव्ये येषामुपलम्भे सत्युपलब्धिलक्षणप्राप्तं पूर्वमनुपलब्धं सदुपलभ्यत इत्येवमाश्रयणीयम् , अन्यथा हि यद्युपलब्धिलक्षणप्राप्तमनुपलब्धमित्येवं नापेक्षेत, तदा तत्र कार्यस्य प्रागपि सत्त्वमन्यतो वा देशेऽपगमनं (सम्भाव्येत) । बेन कारणात्मागवस्थिताः फुट्यादयस्तेषां कारणता न निषिद्धा स्यात् । उपलब्धिलक्षण,