________________
१२४
तत्त्वसङ्ग्रहः ।
भूताः सन्तानिनो व्यवहारलाघवाय सामस्त्येन युगपत्प्रकाश्यन्ते, वनादिशब्देनेव धवादयः ।। १८७२ ।। १८७३ ।। १८७४ ।। १८७५ ।। १८७६ ।। १८७७ ॥ कथं तर्हि सन्ततेरवस्तुत्वं पूर्वमुक्तं सन्तानादीव कारित्रमित्यत्र प्रस्ताव इत्याहएकवेनेत्यादि ।
एकत्वे नाव क्लृप्तत्वान्निः खभावतया मता । तस्वान्यत्वाद्यनिर्देश्या वियत्कमलपतिवत् ॥ १८७८ ॥ सा चानादिरनन्ता च न सिद्धिं कथमृच्छति । यथहेतुकमेतत्स्याच्चित्तमायतया मतम् ॥ १८७९ ॥ नित्यहेतुसमुद्भूतं नित्यं सत्खत एव वा । भूतमात्रोद्भवं वाऽपि यद्वाऽन्यज्ञानमात्रजम् ॥ १८८० ॥ गर्भादावादिविज्ञानं तत्राहेतु न युज्यते । कादाचित्कतया सत्त्वं सर्वथाऽस्यान्यथा भवेत् ।। १८८१ ॥ नापि नित्यमनःकालदिगीशात्मादिभिः कृतम् ।
तत एव सदा सत्वप्रसङ्गात्तदभावतः ॥ १८८२ ॥ एकं नित्यस्वभावं च विज्ञानमिति साहसम् । रूपशब्दादिचित्तानां व्यक्तं भेदोपलक्षणात् ॥ १८८३ ॥ क्षोणीतेजोजलादिभ्यो भूतेभ्यो भूतिरस्य न ।
व्यक्तिव सर्वचिन्तानां यौगपद्यप्रसङ्गतः ॥ १८८४ ॥ स्थिररूपं परैरिष्टं तद्धि भूतचतुष्टयम् । सहकारिव्यपेक्षाऽपि स्थिरे पूर्वमपाकृता ॥ १८८५ ॥
या त्वेकत्वेन कल्पिता सन्ततिः सा तत्त्वान्यत्वाभ्यामवाच्यत्वादवस्तुत्वेनामिमता - आकाशाम्भोरुहपक्तिवदिति, न तस्या अवस्थाविशेषे परलोकव्यवस्थाऽस्माभिः क्रियते । अथास्या एव विज्ञानादिसन्ततेः परलोकसंज्ञितायाः प्रतिषेधः क्रियते, तदा तस्यास्तावत्स्वरूप निषेधद्वारेण परलोकनिषेधो न शक्यते कर्तु दृष्टस्यापहोतुमशक्यत्वात् । किं तर्हि ? । अनाद्यनन्तत्वधर्मनिषेधद्वारेण । सा चेयमनाद्यनन्ता कथं न सिद्ध्यति । यदि यत्तज्जन्मन्चित्तमाद्यतया मतं निर्हेतुकं वा स्यात्, नित्यविज्ञानेश्वरादिहेतुसमुद्भूतं वा, यद्वा स्वत एवं नित्यं, भूतमात्रादुत्पन्नं वा, अन्यसन्ता