________________
पलिकासमेतः। बनादिनिधनः । नर इत्यात्मा । यद्वा नास्तिकता परेत्यनेन परलोकिनोऽभावात्परकोकाभाव इत्येतत्सूत्रं सूचयति ॥ १८६९ ॥ १८७० ॥ १८७१ ॥ .... तदत्रेत्यादिना प्रतिविधत्ते।
तदत्र परलोकोऽयं नान्यः कश्चन विद्यते। उपादानतदादेयभूतज्ञानादिसन्ततेः ॥ १८७२ ॥ काचिनियतमर्यादाऽवस्थैव परिकीर्त्यते । तस्याश्वानाद्यनन्तायाः परः पूर्व इहेति च ॥ १८७३ ॥ दृष्टमात्रसुखासक्तैर्यथैतावति कल्प्यते । परलोकोऽन्यदेशादिस्तथाऽत्रास्माभिरुच्यते ॥ १८७४ ॥ यदि तद्व्यतिरिक्तस्तु परलोको निषिध्यते । तदा साधनवैफल्यं तदसत्त्वे विवादतः ॥ १८७५ ॥ सन्ततेनन्ववस्तुत्वान्नावस्थान्तरसम्भवः । तत्रावस्थापितो लोकः परो वा तात्त्विकः कथम् ॥१८७६॥ नैव सन्ततिशब्देन क्षणाः सन्तानिनो हि ते।
सामस्त्येन प्रकाश्यन्ते लाघवाय वनादिवत् ॥ १८७७ ।। तत्र कोऽयं परलोको नाम यस्य भवता निषेधः क्रियते, किं विज्ञानादिस्कन्धचतुष्टयादुपादानोपादेयत्वेन कार्यकारणभूतादन्य आहोस्वित्तदेव । न तावदाद्यः पक्षा, तस्यानभ्युपेतत्वात् । नापादानोपादेयभूताया विज्ञानादिसन्ततेरन्यः परलोकोऽवास्ति, यस्याभ्युपगमः स्यात् । किं तर्हि ? । तस्या ज्ञानादिसन्ततेरनाद्यनन्तायाः काचिदेव वर्षशताधवधिरूपमर्यादाव्यवस्थैव परलोकः पूर्व इहेति वा व्यवस्थाप्यते । यथा भवद्भिदृष्टमात्रसुखाभिषङ्गादेतावतीन्द्रियगोचर एवान्यदेशादिः परलोकादित्वेन कल्पते । यथोक्तम्-"एतावानेव पुरुषो यावानिन्द्रियगोचरः, तथा पुनरुक्तदेशान्तरं कालान्तरमवस्थान्तरं वा परलोक" इति । यदि तु कार्यकारणभूतविज्ञानादिसन्तानव्यतिरिक्तस्य परलोकस्य निषेधः क्रियते तदा सिद्धसाध्यत्वात्साधनवैफल्यं, तथाभूतस्य परलोकस्यानभ्युपगतत्वात् । ननु च सन्ततेरवस्तुत्वात्तस्यामवस्थाविशेषो यो व्यवस्थापितः सोप्यवस्त्वेव,. ततश्च तत्र तस्यां सन्तताववस्थाविशेषेऽवस्थापितोऽयं परलोकोऽपि न पारमार्थिकः स्यात् । नैष दोषः । सन्ततिशब्देन क्षणा एव वस्तु