________________
१२२
तत्वसङ्ग्रहः। ज्ञानाधारात्मनोऽसत्त्वे देह एव तदाश्रयः । .. अन्ते देहनिवृत्तौ च ज्ञानवृत्तिः किमाश्रया ॥ १८६८ ॥. - इन्द्रियार्थो हि विज्ञानोत्पत्तेः कारणम् , अर्थाधिगमरूपत्वाज्ज्ञानस्य, कललाद्यवस्थायां चेन्द्रियार्थयोरभावात्कथं तत्कार्य विज्ञानं स्यादिति कारणानुपलब्ध्या मूर्छाधवस्थायां विज्ञानाभावः सिद्ध इति समुदायार्थः । नच शक्तिरूपेण तदा विज्ञानमस्तीति कल्पयितुं युक्तं, ज्ञानाश्रयस्यात्मनो नैयायिकादिप्रकल्पितस्य विज्ञानप्रबन्धस्य वा तदानीमभावात् । नच निराश्रया शक्तियुक्ता । तस्मात्सामादेह एव तदानीमाश्रयः । अन्यस्य ज्ञानाधारात्मनः-ज्ञानाधारश्च भावस्य विज्ञानप्रबन्धस्यात्मनो वा तदानीमसत्त्वात् । ततश्चान्ते मरणावस्थायां देहस्साश्रयस्य निवृत्तौ निराश्रयं कथं ज्ञानमवतिष्ठतेति सिद्धोऽनागतजन्माभावः ॥ १८६५ ॥ १८६६ ॥१८६७॥ ॥ १८६८॥
तदनन्तरसम्भूतदेहान्तरसमाश्रयः। . यदि देहोऽपरो दृष्टः कथमस्तीति गम्यते ॥ १८६९ ॥ भिन्नदेहप्रवृत्तं च गजवाज्यादिचित्तवत् । . एकसन्ततिसम्बद्धं तद्विज्ञानं कथं भवेत् ॥ १८७० ॥ एको ज्ञानाश्रयस्तस्मादनादिनिधनो नरः ।
संसारी कश्चिदेष्टव्यो यद्वा नास्तिकता परा ॥ १८७१ ॥ अथापि स्यान्मरणसमनन्तरसमुद्भूतमन्तरामविकं देहमाश्रित्य चित्तवृत्तिर्भविष्यतीति, तदेतदसम्यक् । नहि मरणानन्तरमपरो देह उत्पद्यमानो दृष्टः । नचादृष्टस्यास्तित्वनिश्चयो युक्तः । तस्यासद्व्यवहारविषयत्वात् । नचैकसन्तानवर्तिनश्चेतसो देहान्तरसमाश्रयणं युक्तम् , गजवाज्यादिचित्तवदेकसन्तानसम्बन्धित्वहानिप्रसङ्गात् । प्रयोगः-यदिनदेहप्रवृत्तं विज्ञानं न तदेकसन्तानसम्बद्धं, यथा गजवाजिनोश्चित्तं, मिन्नदेहवृत्तं चान्तराभाबमरणभवयोश्चित्तमिति व्यापकविरुद्धोपलम्भप्रसङ्गः । नचैवं, तस्माद्विपर्ययः । यदेकसन्तानसम्बद्धं तद्भिनदेहप्रवृत्तं न भवति, यथा गजचित्तमश्वदेहानाश्रितम् , एकसन्तानसम्बद्धं च प्राणिनश्चित्तमिति विरुद्धव्याप्तोपलब्धिः । मिनदेहप्रवृत्तत्वविरुद्धेनामिन्नदेहप्रवृत्तत्वेनैकसन्तानसंबद्धत्वस्य व्याप्तस्वात् । एक इत्याधुपसंहारः । माविरुत्पादो निधनं नाशः, न विद्यते आदिनिधने यस्खासा