________________
पखिकासमेतः।
५२१ अपिच-यद्यतीतदेहवर्तिनश्चेतसः प्रथमजन्मचित्तं प्रति कारणभावः स्यात् , मरणचिचल चागामिचित्तं प्रति, तदा चित्तप्रतिबन्धानुपरमात्परलोककल्पना सात् , यावता प्रथमयोस्तावद्विवादास्पदीभूतयोश्चेतसोर्न कार्यकारणताऽस्ति मिनदेहवर्तित्वात् , गवाश्ववर्त्तिनोरिव ज्ञानयोः। अथवा-जन्मबुद्धयो धर्मिण्यः, तासामतीतदेहवर्तिचरमविज्ञानजन्यत्वप्रतिषेधः साध्यः, ज्ञानत्वादिति सामान्यं हेतुः, अन्यसन्तानवर्तिन्यो बुद्धयो निदर्शनम् । प्रयोगस्त्वेवम्-यदि ज्ञानं, न तद्विवक्षितातीतदेहवर्तिचरमझानजन्यम् , ज्ञानत्वात् , यथाऽन्यसन्तानवर्ति ज्ञानम् । ज्ञानरूपाश्चेमा विवक्षितदेहवर्त्तिन्यो जन्मबुद्धय इति विरुद्धव्याप्तोपलब्धिः विवक्षितविझानजन्य(त्व)विरुद्धेन ज्ञानत्वस्य व्याप्तत्वात् ॥ १८६१ ॥ १८६२ ॥
एवं तावदतीतजन्मनिषेधः कृतः । साम्प्रतमनागतजन्मनिषेधायाह-सरागस्वेत्यादि ।
सरागमरणं चित्तं न चित्तान्तरसन्धिकृत् ।
मरणज्ञानभावेन वीतक्लेशस्य तद्यथा ॥ १८६३ ।। सरागस्य मरणचित्तं चित्तान्तरं न प्रतिसन्धत्ते, मरणचित्तत्वादहवरमचित्तवदिति व्यापकविरुद्धोपलब्धिः । वीतक्लेशस्य तद्यथेति । मरणज्ञानम् ।। १८६३ ॥ कुतस्तर्हि चित्तस्योत्पत्तिरित्याह-कायादेवेत्यादि ।
कायादेव ततो ज्ञानं प्राणापानाधिष्ठितात्।
युक्तं जायत इत्येतत्कम्बलाश्वतरोदितम् ॥ १८६४ ॥ तथाच सूत्रम्-कायादेवेति । कम्बलाश्वतरोदितमिति ॥ १८६४ ॥
ननु च कायानिष्पत्तावपि कललाद्यवस्थायां विज्ञानमस्त्येव मूर्छितम् , तचातीतभेदविज्ञानजन्यतया सिद्धम् , कथं कायादेवेति नियम इत्याह-कललादिग्वित्यादि।
कललादिषु विज्ञानमस्तीत्येतच साहसम् । असमातेन्द्रियत्वाद्धि न तत्रार्थोऽवगम्यते ॥१८६५॥ न चार्थावगतेरन्यद्रूपं ज्ञानस्य युज्यते । मूळदावपि तेनास्य सद्भावो नोपपद्यते ॥ १८५६ ॥ नचापि शक्तिरूपेण तदा धीरवतिष्ठते। निराश्रयत्वाच्यक्तीनां स्थितिर्न अवकल्पते ॥ १८६७ ॥