Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 796
________________ पषिकासमेतः। तनामेत्यादिना यथोकं प्रमाणार्थमुपसंहरति तनामसंस्तवाभ्यासवासनावलभाव्यसौ। तेषां विकल्परूपत्वाद्विकल्प इव सम्मति ॥ १९४३ ॥ तदिति । तस्मादित्यर्थः ॥ १९४३ ॥ यन्नामेत्यादिना प्रमाणफलं दर्शयति यत्रामसंस्तवाभ्यासवासनापरिपाकजः। विकल्पो वर्तते तेषां तत्प्रसिद्धं भवान्तरम् ॥ १९४४ ॥ नामः-शब्दस्य, संस्तवः-परिचयोऽनुभव इति यावत्, तस्याभ्यास:पुनरुत्पादः । यस्मिन्मवे नामसंभवाभ्यासो यत्रामसंभवाभ्यास इति, सप्तमीति योगविभागात्समासः । तेनाहिता या वासना तस्याः परिपाकः स्वानुरूपः कार्योत्पादने वृचिलाभः, ततो जात इति व्युत्पत्तिक्रमः । तेषामिति । सद्योजातानाम् ॥ १९४४॥ । नामाभ्यासेत्यादिना परकीयं प्रसङ्गसाधनमाशङ्कते नामाभ्यासबलादेव यदि तेषां प्रवर्तते । तत्किं न विस्फुटा वाचः स्मृतिर्वा वाग्मिनामिव॥१९४५॥ यदि पूर्वसङ्केताभ्यासाद्विकल्पस्य प्रवृत्तिस्तदा बालदारकस्य पूर्वसङ्केतानुस्मरणप्रसङ्गः । नमभ्यासानुवृत्तिः स्मरणमन्तरेण युक्ता । वाग्मिनामिव विस्पष्टवाक्प्रवृ. तिप्रसङ्गश्च । ततश्च सङ्केतकरणानर्थक्यं स्यात् । न चैवं भवति । तस्मात्स्मरणाभावात् , विस्पष्टवाचोऽप्रवृत्तेश्च, पूर्वाभ्यासपूर्वत्वं विरुद्धमिति प्रसङ्गविपर्ययेण धर्मखरूपनिराकरणमुखेन प्रतिज्ञादोषमाह ॥ १९४५ ॥ पटीयसेत्यादिना प्रसङ्गविपर्यये च हेतोरनैकान्तिकत्वमाह पटीयसोपघातेन परिपाकाकुलत्वतः। न स्यादासामियं वृत्तिः सन्निपातदशाखिव ॥ १९४६ ॥ नहि पूर्वाभ्यासः सर्वदा स्मरणादिना व्याप्तो येन स्मरणादिकं प्रवर्चयेत् । तमिवृत्तौ वा निवर्चेत । यावता पूर्वाभ्यासानुवृत्तिश्च भवेन च स्मरणम् , यथा सनिपातावस्थायाम् । तथा खप्नेऽपि पूर्वाभ्यासानुवृत्तिर्भवेन च स्मरणम् । समिपावनहणमुपलक्षणम् । पटीयसेति । गर्भपरिवासात् । परिपाकाकुलत्वत इति ।

Loading...

Page Navigation
1 ... 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832