Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 795
________________ तत्त्वसङ्घन्दः । रुदितस्तनपानादिकार्येणासौ च गम्यते । स च सर्वो विकल्पात्मा स च नामानुषङ्गवान् ॥ १९४१ ॥ तद्विशेषानुकारत इति । तस्य जन्मान्तरवर्त्तिनो ज्ञानस्य यो विशेषस्तमनुकुर्वन्त्यैहिकानि ज्ञानानि । तथा चोक्तम् — “अभ्यासयोगेन शुभाशुभानि कर्माणि सात्म्येन भवन्ति पुंसाम् । यदप्रयत्नेन विनोपदेशाज्जन्मान्तरे स्वप्न इवाचरन्ति ॥” तत्र यदुक्तं चार्वाकेण —— इह लोकपरलोकशरीरयोर्भिन्नत्वात्तद्गतयोरपि चित्तयोर्नैकः सन्तान इत्यादि । गर्भादौ प्रथमं विज्ञानं विवादगोचरापन्नैकसन्तानिकं न भवति मिन्नशरीरत्वान्महिषवराहादिविज्ञानवदिति । तदनेन प्रतिक्षिप्तं भवति । अपिचइतोऽपि परलोकः सिद्धः । तथाहि —यो यो विकल्पः स शब्दानुभवाभ्यासपूर्वकः, विकल्पत्वात्, यौवनाद्यवस्थाभाविविकल्पवत् । विकल्पश्चायं सद्योजातानां स्तनपानाद्यभिलाषादिविकल्प इति स्वभावहेतुः । नचाश्रयासिद्धो हेतुः । यतो रुदितस्तनपानादिकार्येणासौ सद्योजातानां स्तनपानाद्यभिलाषादिर्धर्मी सिद्धः । हि श (र ?) क्तिर्विद्वेषादिरूपेणाविकल्पयतो रुदितस्तनपानादिसम्भवो युक्तः । नापि स्वरूपासिद्ध इति प्रतिपादयति स च सर्वो विकल्पात्मेति । सः - स्तनपानाभिलाषादिः । सर्वो विकल्पात्मा - विकल्पस्वभावः । प्रार्थनाद्याकारतयाऽनुभूयमानत्वात् । नाप्यनैकान्तिक इति दर्शयन्नाह - स च नामानुषङ्गवानिति । स इति । विकल्पः । यस्मात्सर्वो विकल्पः शब्दोल्लेखन प्रवृत्तेर्नामानुषक्तः । स च नामानुषक्नो विकल्पस्य सङ्केताभ्यासमन्तरेण न सम्भवतीति पूर्व विस्तरेण प्रतिपादितमस्माभिः । १९३९ ।। १९४० ।। १९४१ ॥ 1 अथापि स्याद्भवतु नाम नामानुषङ्गोऽभ्यासपूर्वकस्तथाऽप्यसौ नेष्टप्रसाधनः । किं तर्हि ? | ऐहलौकिकाभ्यासपूर्वत्वमेव विपरीतं साधयतीत्याह-न नामरूपमित्यादि । न नामरूपमभ्यस्तमस्मिन्जन्मनि विद्यते । तेषां चान्यभवाभावे तदुच्छेदः प्रसज्यते ॥। १९४२ ॥ एतदुक्तं भवति । ऐहिलौकिकाभ्यासः सद्योजातानां प्रमाणप्रतीतिबाधितः । नच बाध्यमानप्रतिज्ञार्थस्य हेतोर्विरुद्धत्वं युक्तम्, विरुद्धोऽसति बाधन इति न्यायात् । नामरूपमिति । नान्नो रूपम् - बाघ (वाच ?) कः स्वभावो, बुद्धिपरिवर्त्यपि बाह्येषु शब्देष्वभ्यस्तः । तेषां चेति । सद्योजातानां । तदुच्छेद इति । तेषामभिलाषादी - नामुच्छेदस्तदुच्छेदः || १९४२ ॥ I •

Loading...

Page Navigation
1 ... 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832