Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 794
________________ पविकासमेतः। तस्य चात्र व्यापकस्याभाव इति सिद्धा देहानाभिता बुद्धिः । तत्तलादेहनिवृत्ता. बपि न निवर्तयिष्यत इत्यविरोधः। यो हि यदाश्रितो न भवति तमिवृत्तौ न नियमेन तस्य निवृत्तिः । तद्यथा गोनिवृत्तौ गवयस्य न नियमेन निवृत्तिः । नच देहो मनो' मतेराश्रय इति व्यापकानुपलब्धिः ॥ १९३५ ॥ १९३६ ॥ यदुक्तं मरणान्तरोद्भूतदेहान्तरेत्यादिना श्लोकद्वयेन तत्राह-केवलापीत्यादि । केवलाऽपि मनोबुद्धिर्यदेवमविरोधिनी। नातोऽन्यदेहसदावसिद्धये यनिनो वयम् ॥ १९३७॥ नच शक्यनिषेधोसावदृष्टावपि संश्रयात् । स्थादेषा मन्दनेत्रस्य खच्छ(ल्प?)धूमाघदृष्टिवत् ॥१९३८॥ अयमत्रामिप्रायः-परलोकोऽत्र साधयितुमिष्टः, स च कथं सिद्ध्यति, यदि बुद्धिरनाद्यनन्ता सिद्धयेत् । अस्या एवावस्थाविशेषः परलोकप्रज्ञप्तौ । न तु देहे आह. (रू?)प्यधातौ, देहाभावेऽपि परलोकाभ्युपगमात् । सा चेचित्तसन्ततिरनायनन्ता सिद्धा सिद्धो नः परलोक इति नान्यदेहसिद्धये यत्नः क्रियतेऽस्मामिनिष्फलत्वात् । नच तस्यादृष्टिमात्रेण निषेधः शक्यते कर्तुम् । तथा ोषाऽदृष्टिर्जातिविशेषे भावनादिवैकल्यान्मन्दनेत्रस्य भवतः सत्यपि तस्मिन्देहे स्यादपि, ननु बमोऽ(तनुधूमा ?). दर्शनवदिति नानुपलब्धिमात्रेण प्रतिषेधः सिद्ध्यति । तथाहि सजातिशुद्धदिव्याक्षदृश्योत्तराभवो वर्ण्यते । अत एव सायपरिकल्पिवातिवाहिकशरीरस्याप्यप्रतिक्षेपः । पूर्वकालभवस्यापि देशविप्रकर्षानोपलम्भः स्यात् , दूरतरदेशोत्पत्तेः, स्वभावविप्रकर्षाद्वा, पिशाचादिदेहवत् । अविप्रकर्षेऽप्यग्दिर्शिना सोऽयं प्राणी पतङ्गाद्यात्मतां गत इति निश्चेतुमशक्यत्वात् । अचिन्त्यशक्तिभैषज्योपयोगेन परावृत्तदेहवत् ॥ १९३७ ॥ १९३८॥ कथं तर्हि मिन्नाश्रयाश्रयाणि ज्ञानान्येकसन्तानसम्बद्धान्युच्यन्त इत्याह-भिन्नदेहाश्रितत्वेऽपीति। भिन्नदेहश्रितत्वेऽपि तद्विशेषानुकारतः । एकसन्ततिसम्बद्धं प्राच्यज्ञानं प्रबन्धवत् ॥ १९३९ ॥ अपि च स्तनपानादावभिलाषे प्रवर्तते । उद्वेग उपधाते च सयोजन्मभृतामपि ॥ १९४० ॥

Loading...

Page Navigation
1 ... 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832