Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 793
________________ सत्त्वसङ्कहा। तदव्यापारभावेऽपीति । तयोरिन्द्रियार्थयोरव्यापारेऽपीति यावत् । नहि यद. व्यापारेऽपि यल भावस्तत्तय कारणं युक्तमतिप्रसङ्गात् ॥ १९३१ ॥ स्थादेतवतु व्योमोत्पलादिविकल्प इन्द्रियार्थानपेक्षस्तदभावेऽपि भावात् । यस्तु चक्षुपि प्रणिहिते नीलादौ पुरोवर्तिनि विषये नीलमेतदिति विकल्पः प्रवर्तते । स कथमिन्द्रियानपेक्षो येन पक्षकदेशेऽसिद्धो हेतुर्न भवेदित्याह-तयोरित्यादि । तयोर्भावेप्यतीतादिविकल्पो यः प्रवर्तते । असदर्थोपरागेण तुल्य एवावसीयते ॥ १९३२ ॥ शब्दार्थप्रतिभासिवाद्वस्तुरूपं न भासते। विकल्पेष्विति सर्व हि विस्तरेणोपपादितम् ॥ १९३३ ॥ तयोरिति । इन्द्रियार्थयोः । असदर्थः शून्य उपरागो नि सो यस्योत्प्रेक्षितादिविकल्पस्य सोऽसदर्थोपरागोव्योमादिविकल्पः । तेन तुल्योऽयमपि निर्विषय इत्यर्थः । कथम् । सर्वो हि विकल्पः शब्दोल्लेखेन प्रवृत्तेः शब्दार्थावभासी, यश्च शब्दार्थावभासी न तत्र वस्तुरूपं भासते वस्तुरूपे शब्दस्याप्रवृत्तेः, तत्र तस्यासङ्केतितत्वादिति विस्तरेण शब्दार्थपरीक्षायां प्रतिपादितम् । सपक्षे सद्भावान्न विरुद्धो हेतुः, नाप्यनैकान्तिकः, खोपादानानुद्भवत्वे निर्हेतुकत्वप्रसङ्गात् ॥१९३२॥ ॥ १९३३ ॥ कायाश्रितत्वान्न निर्हेतुकत्वमिति चेदित्याशङ्कयाह-प्रसुतिकेत्यादि । प्रसुतिकाद्यवस्थासु शरीरविकृतावपि । नान्यथात्वं मनोबुद्धेस्तस्मान्नेयं तदाश्रिता ॥ १९३४ ॥ प्रसुप्तिकादिरोगोपघातेन हि देहविकारोऽपि मनोमतेरविकारादियं मनोमतिर्न देहाश्रिता, यद्विकारेण नियमात्साक्षाद्यन्न विक्रियते न तत्तदाश्रितं, यथा गोविकारेणाविक्रियमाणोऽश्वो न च देहस्य विकारेण नियमात्साक्षाद्विक्रियते मनोबुद्धिः प्रसुप्तिकावस्थायामिति व्यापकानुपलब्धिः ॥ १९३४ ॥ स्वल्पीयसीत्याविना तदाश्रितत्वं साक्षात्तविकारविकारित्वेन व्याप्तमिति दर्शयति। खल्पीयस्यपि नेत्रादेर्विकारे तिमिरादिके। चक्षुरायाश्रिता बुद्धिर्विकृतैव हि जायते ॥ १९३५ ।। तदेहत्य विनाशेपि मनोधीरतदाया। सोपादानबलेनेव वर्तमानाविरोधिनी ॥ १९३६ ॥

Loading...

Page Navigation
1 ... 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832