Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 791
________________ ABO तन्त्वसङ्ग्रहः । इन्द्रियार्थबलोद्भूतं सर्व विज्ञानमित्यदः । साहसं वेद्यते यस्मात्स्वमादावन्यथाऽपि तत् ॥ १९२१ ॥ रूपमर्थगतेरन्यदप्यस्य व्यवसीयते । मूर्छादावपि तेनास्य सद्भाव उपपद्यते ॥। १९२२ ॥ यदि सर्वमेव ज्ञानमिन्द्रियार्थबलेनैव ज्ञायते तदा साहसं भवेत् यावता स्वप्नाद्यवस्थायां नीलादिप्रतिभासं मनोविज्ञानमसत्यपि चक्षुरादीन्द्रिये विनाऽपि रूपादिनार्थेन संवेद्यते । नचापि तस्य तदानीं कायेन्द्रियमाश्रय इति शक्यं वक्तुम्, नीलादिप्रतिभासत्वात् । कायविज्ञानस्य च स्प्रष्टव्यविषयत्वात् । तस्मादर्थावगतिरूपं सर्व विज्ञानमित्ययुक्तम् । तेन मूर्छादावपि विज्ञानसद्भावो न विरुद्ध्यते ॥ १९२० ॥ ॥। १९२१ ।। १९२२ ॥ अथापि स्याच्छतिरूपेणावस्थानं विज्ञानस्याविरुद्धं स्वरूपेण तु विरुद्धमित्याह - न चापीति । न चापि शक्तिरूपेण तथा धीरवतिष्ठते । स्वरूपेणैव बुद्धीनां व्यवस्थानं तदा मतम् ॥। १९२३ ।। सुप्तमूर्च्छायवस्थासु चेतो नेति च ते कुतः । निश्चयो वेदनाभावादिति चेत्स कुतो गतः ॥ १९२४ ॥ यदीत्थं भवतस्तासु निश्वयः संप्रवर्त्तते । · न वेद्मि चित्तमित्येवं सति सिद्धा सचित्तता ॥ १९२५ ॥ स्यान्मतं यदि विज्ञानं दशाखाखस्ति तत्कथम् । म स्मृतिः प्रतिबुद्धादेः तदाकारा भवेदिति ॥ १९२६ ॥ तदकारणमत्यर्थ पाटवादेरसम्भवात् । स्मरणं न प्रवर्त्तेत सद्योजातादिश्चित्तवत् ॥ १९२७ ॥ 1 यदि हि सुप्तमूर्च्छायवस्थायां चित्तं नास्तीति निश्चायकं किंचित्प्रमाणं भवेद्भवेद्विरोधः । स्ववेदनानुपलम्भोऽस्ति निश्चायकं प्रमाणमिति चेन्न । स्वसंवेदनानुपलम्भः कुतः सिद्धः । नहि तस्यामवस्थायां संवेदनाभावनिश्चयोऽस्ति । यदि च तासु मूछवस्थासु न वेद्द्यहं चित्तमित्येवं निश्चयः प्रवर्त्तते भवतस्तदा तेनैव तथा प्रवृत्तेन निश्चयेन सच्चित्रता सिद्धा । अथाऽपि स्याद्यदि स्वापाद्यवस्थासु चित्तं स्यात्किमिति

Loading...

Page Navigation
1 ... 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832