Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 792
________________ पत्रिकासमेतः। प्रतिबुद्धादेः पुरुषस्य स्मरणं न भवेत् । आदिशब्देन विगतमूर्छस विगतमदस्येति परिप्रहः । तदेतदस्मरणमकारणमनुभूताभावसिद्धये । यदि अनुभूत इत्येतावन्मात्रेगैव स्मरणं स्यात्स्यादेतत् , यावता सत्यप्यनुभवे पाटवाभ्यासार्थित्वादिवैकल्यात्म'रणं न भवति । यथा सद्योजाताद्यवस्थायामनुभूतस्यापि चित्तस्य ॥ १९२३ ॥ ॥ १९२४ ॥ १९२५ ॥ १९२६ ॥ १९२७ ॥ अस्तित्वेऽपि भवतां तर्हि किं प्रमाणं यदि स्मरणाप्रवृत्तावपि सन्देह इति प्रति. चोदयन्नाह यद्येवमित्यादि । यद्येवं कथमस्तित्वमस्यासु व्यवसीयते । पूर्वोपवर्णितादेव हेतोरित्यवगम्यते ॥ १९२८ ॥ खममूर्छाद्यवस्थासु चित्तं च यदि नेष्यते । मृतिः स्यात्तत्र चोत्पत्ती मरणाभाव एव वा ॥ १९२९ ॥ खतना मानसी बुद्धिश्चक्षुराद्यनपेक्षणात् । खोपादानबलेनैव खमादाविव वर्तते ॥ १९३० ॥ अस्येति । विज्ञानस्य । आस्विति । स्वापाद्यवस्थासु । तत्र पूर्वोपवर्णितो हेतुः -प्रबुद्धादेः पुरुषस्यादिविज्ञानं स्वोपादानबलोद्भवं विज्ञानत्वादाभोगायनन्तरभाविस्मार्तादिविज्ञानवत् । नचायमनैकान्तिको हेतुः, पूर्व कारणान्तरनिषेधेन प्रतिबन्धस्य साधितत्वात् । किंच-यदि स्वापाद्यवस्थायां चित्तं न भवेत्तदा मरणमेव स्यात् । अथ तत्र तथाभूते निर्मूलमपगतविज्ञाने देहे पुनरुत्पत्तिरिष्यते विज्ञानस्य तवा तत्रोत्पत्ताविष्यमाणायां मरणाभावः प्राप्नोति, मृतस्यापि पुनर्विज्ञानोत्पत्तिप्रसमात्सुप्तप्रबुद्धवत् । मनोबुद्धेरेव जन्मान्तरप्रतिसन्धाने सामर्थ्यात् । तथाचोक्तम्"छेदसन्धानवैराग्यहानिम् पत्तयः । मनोविज्ञान एवेष्टा” इति । अतो मनोबुद्धिः पूर्वबुद्धिमात्राश्रयेति प्रतिपादयन्नाह स्वतन्त्रेत्यादि । वातव्येऽनपेक्ष्यत्वं हेतुः । सर्वदेवेयं मनोबुद्धिः खोपादानकारणमात्रभाविनी, खोपादानव्यतिरिक्तचक्षुरादिकारणान्तरानपेक्षणात् , स्वप्नावस्थावत् ॥ १९२८ ॥ १९२९ ॥ १९३०॥ तथाहीत्यनेन हेतोरसिद्धतां परिहरति । तथाहि न विकल्पानामिन्द्रियार्थव्यपेक्षिता। तदव्यापारभावेऽपि भावायोमोपलादिषु ॥ १९३१ ॥

Loading...

Page Navigation
1 ... 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832