Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 803
________________ ५५९, तत्त्वसाहः। मूळ इत्यभ्युपगन्तव्यमिति स्ववचनविरोध प्रतिक्षायामाह-लब्धापचयेत्यादि । लग्धोऽपचयपर्यन्तो येन रूपेण स्वभावेन, तत्तथोक्तम् । एतदुक्तं भवति-यथपचीयमानावयवविभागेनापचीयमानखभावा न भवन्ति, यदि निरंशा इति यावत् , तदा न मूर्त्ता वेदनादिवत्सिद्ध्यन्ति, विशेषाभावात् ॥ १९७० ॥ १९७१ ॥ तुल्येत्यादिना भदन्तशुभगुप्तस्य परिहारमाशते । तुल्यापरक्षणोत्पादायथा नित्यत्वविनमः । अविच्छिन्नसजातीयग्रहे चेत्स्थूलविभ्रमः ॥ १९७२ ॥ स साह-यथा सदृशापरापरक्षणोत्पादाद्विपलब्धस्य गृहीतेऽपि प्रत्यक्षेण शब्दादौ नित्यत्वविभ्रमस्तथा परमाणुनामविच्छिन्नदेशानां सजातीयानां युगपद्हणे स्थूल इति मानसो विभ्रमो भवति । ततश्च 'निरंशानेकमूर्तानां प्रत्ययाप्रतिवेदनादियसिद्धो हेतुरिति ॥ १९७२ ॥ स्वव्यापारेत्यादिना दूषणमाह-स्वव्यापारबलेनैवेति । ' खव्यापारवलेनैव प्रत्यक्षं जनयेदि । न परामर्शविज्ञानं कथं तेऽध्यक्षगोचराः ॥ १९७३॥ क्षणिका इति भावाच निश्चीयन्ते प्रमाणतः। अणवस्विति गम्यन्ते कथं पीतसितादयः ॥ १९७४ ॥ सूक्ष्मप्रचयरूपं हि स्थूलखादायचाक्षुषम् । पर्वतादिवदनापि समस्त्वेषाऽनुमेति चेत् ॥ १९७५ ॥ स्थूलखें वस्तुधर्मो हि सिद्धं धर्मिद्वयेऽपि न । न वस्त्यवयवी स्थूलो नाणवश्च तथाविधाः ॥ १९७६ ॥ अथ देशवितानेन स्थितरूपं तथोदितम् । तथापि भ्रान्तविज्ञानभासिरूपेण संशयः ॥ १९७७ ॥ वैतथ्यात्स तथा नो चेदयतिरेकेऽप्रसाधिते । तमादतिशयः कोऽस्य कार्यसंवादनं यदि ॥ १९७८ ॥ कार्यावभासिविज्ञानसंवादेऽपि ननूच्यते । सामर्थ्यनियमाद्धेतोः स च सम्भाव्यतेऽन्यथा ॥ १९७९ ॥

Loading...

Page Navigation
1 ... 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832