Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 786
________________ पविकासमेवः। खभावश्च प्रथमजन्मचित्तादिकलाप इति स्वभावहेतुः । तत्रादिविज्ञानमिति विज्ञा. नग्रहणमुपलक्षणं । बेदनादयोऽपि गृहीतव्याः ॥ १८९७ ॥ साध्यविपर्यये हेतोर्बाधकं प्रमाणमाह-अन्यहेत्वित्यादि । अन्यहेतुप्रतिक्षेपादहेतुत्वे च संस्थिते। अन्यथा नियतो धर्मो नायं तस्य प्रसज्यते ॥१८९८ ॥ अन्येषां नित्यमनःकालदिगीशादीनां पूर्व प्रतिक्षेपात्खोपादानस्य चानभ्युपगमेsहेतुकत्वं स्यात् , ततश्चायं विज्ञानादित्वलक्षणो नियतो धर्मो न स्यात् । आकस्मिकस्य स्वभावस्य नियामकाभावेन प्रतिनियमायोगात् । अतो निर्हेतुकत्वे नियतविज्ञानादिधर्मानुपपत्तिर्बाधकं प्रमाणं कादाचित्कत्वानुपपत्तिश्च ।। १८९८ ॥ एवमतीतं जन्म प्रसाध्यानागतमपि प्रसाधयितुं प्रमाणयन्नाह-मरणेत्यादि । मरणक्षणविज्ञानं खोपादेयोदयक्षमम् । रागिणो हीनसङ्गत्वात्पूर्वविज्ञानवत्तथा ॥ १८९९॥ यत्सरागं चित्तं तत्वोपादेयचित्तान्तरोदयसमर्थ सरागत्वात्पूर्वावस्थाचित्तवत्, सरागं च मरणचित्तमिति स्वभावहेतुः । नचासिद्धो हेतुः, यतो यद्भोगादिप्रतिपक्षनैरात्म्यदर्शनवियुक्तं चित्तं तत्सर्व सरागमेव प्रतिपक्षवियुक्तत्वात् , सुरताभोगचित्तवदिति । नाप्यनैकान्तिक एतावन्मानहेतुकत्वाचित्तान्तरोदयस्पेयविकलकारणानुपपत्तिर्बाधकं प्रमाणम् ॥ १८९९ ॥ एतदेव दर्शयति येन रूपेणेत्यादि । येन रूपेण विज्ञानं जनयत्परिनिश्चितम् । प्राक्पश्चादपि तद्विभ्रदखण्डं किं न कारकम् ॥ १९००॥ तद्विधदिति । स्वरूपम्-खभावमिति यावत् ॥ १९०० ॥ परपक्ष इत्यादिना प्रयोगद्वयेऽपि दृष्टान्तयोः साध्यविकलतां चोदयति । परपक्षे च तज्ज्ञानं कायादेवेति संस्थितिः । दृष्टान्तौ तत्कथं सिद्धौ साध्यधर्मसमन्वितौ ॥ १९०१॥ ननु कायस्य हेतुत्वं प्रागेव विनिवारितम् । चेतसो युगपत्प्रासेरभावाचातिरेकिणः ॥ १९०२॥ आभोगशुभचित्तादिभाविखेन विनिधितम् । स्मृतिरागादिविज्ञानं तनिषेढुं न पार्यते ॥ १९०३ ॥

Loading...

Page Navigation
1 ... 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832