Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 787
________________ ARE तस्वसः । निर्हासातिशयौ दृष्टौ बुद्धीनां पूर्वभाविनः ।) (श्रुत शिल्पादिकाभ्यासविशेषहासवृद्धितः) ॥ १९०४ ॥ (मनस्कारे तु) विगुणे ज्ञातव्यार्थान्तराग्रहात् । ज्ञानस्य ज्ञानहेतुत्वं न याति वचनीयताम् ॥। १९०५ ।। वि(भिन्नदेहवृत्तित्वादिति हेतोरसिद्धता ।) ( अमूर्तचेतसो ) वृत्तिः का वा कायेष्वपातिनः १९०६ ॥ 1 तथाहि —— खोपादानोद्भवत्वं स्वोपादेयोदयक्षमत्वं च साध्यधर्मः । यस्य च नित्यं कायादेव विज्ञानमुत्पद्यत इति दर्शनं तस्य न क्वचिद्यथोक्तसाध्यधर्मत्वसमन्वितो दृष्टान्तः सिद्ध इति कथमिदानीन्तनचित्तवत्पूर्वविज्ञानवदित्येतयोर्दृष्टान्तयोरुपन्यास इति । नैष दोषः । पूर्वमेव कायस्य हेतुत्वं निषिद्धं "चेतसो यौगपद्यप्रसङ्ग" इत्यनेन । अपेक्षणीयस्य सहकारिकारणस्यातिरेकिणोऽभावात्, नित्यस्यापेक्षानुपपत्तेः । अनित्यपक्षे तु पूर्वोक्तं वर्त्तमानं च दूषणम् । न चाभ्युपगममात्रेण प्रमाणसिद्धस्या - प्यसिद्धत्वं युक्तमतिप्रसङ्गात्, तथाच न किंचित्कस्यचित्साधनं स्यात् । यथाऽऽह'नानिष्टेर्दूषणं सर्वमिति । किंच — यदाऽऽभोगचित्तसमनन्तरं स्मरणमुत्पद्यमानं सुपरिनिश्चितं तदा शुभादिचित्ताद्रागः । तथाहि —सा सुन्दरीति तरुणीति तन्दुरीति सुमुखीति चेत्यादि शुभं चिन्तयतां रागिणां राग उत्पद्यते, तथा ममानेनापकृतमथ करिष्यत्ययमपकरोतीत्यादि चिन्तयतश्च द्वेष उत्पद्यमानो निश्चितः, स कथमपहोतुं शक्यते विशेषतः प्रत्यक्षमात्रवादिना । तथा पूर्वभाविनः श्रुतशिल्पाद्यभ्यासविशेषस्योत्कर्षापकर्षाभ्यामुत्तरबुद्धीनां समुत्कर्षापकर्षो दृष्टौ, तथाऽर्थान्तरव्यासङ्गेन मनस्कारवैगुण्यादर्थान्तराग्रहणं दृष्टमिति ज्ञानस्य ज्ञानहेतुत्वं युक्तियुक्तत्वादवचनीयम् । न तु भूतानां युक्तिविरोधात् । अत एव ज्ञानस्य ज्ञानहेतुत्वप्रतिपादनात् । कार्यकारणतेत्यादौ प्रथमे प्रसङ्गे विभिन्नदेह वृत्तित्वादित्यस्य हेतोरसिद्धता, तथाहि — यदि तावदाधाराधेयलक्षणा वृत्तिरभिप्रेता सा सुतरां चित्तस्यापतनधर्मणः कायेष्वसिद्धा, सत्यपि कार्यकारणभावे चित्तस्यामूर्त्तत्वेनापतनधर्मकत्वात् । न चापतनधर्मकस्याधारो युक्तोऽकिंचित्करत्वात् ॥ १९०० ॥। १९०१ ॥ १९०२ ॥। १९०३ ॥। १९०४ ॥ ।। १९०५ ।। १९०६ ॥ जलादीनां तर्हि किं कुर्वन्नाधारः स्यादित्याह -- स्यादित्यादि ।

Loading...

Page Navigation
1 ... 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832