Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 788
________________ पविकासमेतः। स्थादाश्रयो जलादीनां पतनप्रतिषेधतः। . चेतसामगतीनां च किमाधारैः प्रयोजनम् ॥ १९०७॥ तादात्म्येन स्थितिवृत्तिरिह चेत्परिकल्प्यते । साऽप्ययुक्ता न हि ज्ञानं युक्तं कायात्मकं तव ॥१९०८॥ प्रक(क्षि?)यादिमूर्तस्य खोपादानदेशपरिहारेणोत्पद्यमानस्योपादानदेशोत्पादहेतुस्वादाधारो गमनप्रतिबन्धाद्व्यवस्थाप्यते । न त्वमूर्तस्य शक्यं तथा व्यवस्थापयितुम् । अथ तादात्म्यलक्षणा वृत्तिरमिप्रेता, साऽपि न सिद्धा। नहि तव बहिरामिनिवेशिनो वक्तुं युक्कं कायात्मकं विज्ञानमिति । मम तु युक्तं विज्ञानमात्रवादिन आलयविज्ञानखभावत्वात्कायस्पेत्यभिप्रायः ॥ १९०७ ॥ १९०८ ॥ कस्मान युक्तमित्याह-तादात्म्ये इत्यादि । तादात्म्ये हि यथा कायो विस्पष्टं वेचते परैः। रागद्वेषादिचेतोऽपि तथा किं न प्रवेद्यते ॥ १९०९ ॥ खेनैव वेद्यते चेतो देहस्तु खपरैरपि। यो चैवं तौ विभियेते कुक्षिमूलनटाविव ॥ १९१०॥ तथाहि देहे गृह्यमाणे परैरागादीनामपि ग्रहणं प्राप्नोत्यव्यतिरेकात् । नच विप्रशस्याऽनेकान्तः, तस्यास्तदानीमप्रत्यक्षत्वात् । नतु चैतन्यस्याप्रत्यक्षत्वं, आत्मनाप्यप्र. हणप्रसङ्गात् । किंच-यावुभयनिश्चितैकनिश्चितौ तौ मित्रौ यथा कुक्षिमूलानुभवनटौ, उभयनिश्चिवैकनिश्चिते च देहचैतन्ये इति स्वभावहेतुः । स्वेनैवेति । आत्मनैव ॥ १९०९ ॥ १९१०॥ अद्वयज्ञानपक्षे तु नायं हेतुः प्रसिद्ध्यति । खस्य खस्यावभासस्य वेदनात्तिमिरादिवत् ॥ १९११ ॥ उदयानन्तरध्वंसि नैरन्तर्येण लक्ष्यते । चेतोदेहस्य तादूप्ये क्षणिकरत्वं न किं मतम् ॥ १९१२॥ यद्येवं विज्ञानमात्रवादप्रतिक्षेपोऽनेनैव हेतुना क्रियमाणो दुर्वारः स्यादित्यत आह -नायं हेतुः प्रसिक्ष्यतीति । असिद्धता हेतुदोषो भवतीति । तथाहि 'उभयनिश्चितत्वं विज्ञानवादिनो न सिद्धं खप्रतिभासस्यैव सर्वदा वेदनात् । मिरिकद्वयक्तिचन्द्रदर्शनवत् । अपिल विलक्षणार्यवितिकाले निरन्तरमुत्पादसमनन्तरविनाशि ६८

Loading...

Page Navigation
1 ... 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832