Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 784
________________ पखिकासमेतः। यदि न्यायानुरागादः खपक्षेऽप्यनपेक्षता। भूतान्येव न सन्तीति न्यायोऽयं पर इष्यताम् ॥१८८८॥ अथ युक्त्युपेतत्वात्क्षणिकत्वमभ्युपगम्यते तदा विज्ञप्तिमात्रतानयतर्हि पर उत्कष्टोऽभ्युपगम्यता, तत्रापि युक्त्युपेतत्वस्याभ्युपगमकारणस्य तुल्यत्वात् ॥ १८८८ ॥ कथमित्याह-नावयव्यात्मतेत्यादि । नावयव्यात्मता तेषां नापि युक्ताऽणुरूपता। अयोगात्परमाणूनामित्येतदभिधास्यते ॥ १८८९ ॥ तेषामिति । महाभूतानाम् । अभिधास्यत इति । समनन्तरमेव बहिरर्थपरीक्षायाम् ॥ १८८९ ॥ यदि न सन्त्येव भूतानि कथं तर्हि प्रतिभासन्त इत्याह-अबहिस्तत्त्वरूपाणीत्यादिना। अबहिस्तत्त्वरूपाणि वासनापरिपाकतः। विज्ञाने प्रतिभासन्ते खमादाविव नान्यतः ॥ १८९० ॥ अन्यत इति । विज्ञानादन्यत्र बाह्य इति यावत् ॥ १८९०॥ कथं तर्हि पृथिवीत्यादिव्यवहारो लोकशास्रयोरित्याह-विज्ञानस्यैवेत्यादि । विज्ञानस्यैव निर्भासं समाश्रित्य प्रकल्प्यते । खममायोपमं नेदं महाभूतचतुष्टयम् ॥ १८९१ ॥ यदि भूतानि न सन्ति कस्तर्हि ज्ञानहेतुरित्याह-तदन्यस्येत्यादि । तदन्यस्य तदाभावे हेतुत्वं नोपपद्यते। प्राग्भूतं भूतनिर्भासं ज्ञानं तु जनयेत्परम् ॥ १८९२॥ तदन्यस्येति । तस्माद्विज्ञानादन्यस्य भूतचतुष्टयस्य ॥ १८९२ ॥ एवं भूतमात्रोद्भवं तावदाचं चित्वं न भवतीति प्रतिपादितम् , इदानीं च जन्यविज्ञानमात्रजमित्येतत्पक्षनिराकरणायाह-सन्तानान्तरेत्यादि । सन्तानान्तरविज्ञानं तस्य कारणमिष्यते। यदि तकिमुपादानं सहकार्यथवाऽस्य किम् ॥ १८९३ ॥ उपादानमभीष्टं चेत्तनयज्ञानसन्तती। पित्रोः श्रुतादिसंस्कारविशेषानुगमो भवेत् ॥ १८९४॥

Loading...

Page Navigation
1 ... 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832