Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 782
________________ पत्रिकासमेतः। णम् । अपि तु मनस्कारविशेषसापेक्षमिति निश्चीयते । अन्वयव्यतिरेकसमधिगम्यत्वात्कार्यकारणभावस्य । न चापि यतो यत्प्रथमतरमुत्पद्यमानं निश्चितं तत्ततोऽन्यस्मात्प्रथमतरमुदयमासादयत्यहेतुकत्वप्रसङ्गात् । धूम इवानमेः । प्रथमतरं चाक्षबुद्विरुत्पद्यमानाऽनुगुणमनस्कारसापेक्षैवोत्पद्यत इति । तस्मान्न केवलमिन्द्रियमस्याः कदाचित्कारणमिति सिद्धम् । अन्यथा निर्हेतुकत्वप्रसङ्गो बाधकं प्रमाणम् । नापि मनोबुद्धिरिति पक्षः। नहि साऽक्षरनुपलब्धेऽर्थे स्वातत्र्येण प्रवर्त्तते, अन्धबधिरायभावप्रसङ्गात् । प्रवर्ततां वा, किं सा सविकल्पिका, आहोस्विदविकल्पिकेति वक्तव्यम् । तत्र न तावदाद्यः पक्षः । तथाहि-विकल्पः प्रवर्त्तमानः सर्व एव बोधकशब्दाकारानुस्यूत एव वर्त्तते, अन्तर्जल्पाकारतया नित्यमनुभूयमानत्वात् । सा च वाचकशब्दाकारता विकल्पस्य सङ्केताहणवशाद्वा भवेत् , यद्वा वाचकात्मनः शब्दरूपस्य ज्ञानात्मधर्मरूपत्वादोधरूपवच्छब्दार्थग्रहणाद्वेति विकल्पात् । तत्र न तावसङ्केतग्रहणादिति पक्षः, पूर्व सङ्केतस्यागृहीतत्वात् । नापि द्वितीयः पक्षः । तथाहि -द्विविधः शब्दात्मा स्खलक्षणरूपः सामान्यलक्षणरूपश्च, तत्र यस्तावत्खलक्षणरूपस्तस्यावाचकत्वानुभवाकारतया ज्ञानस्य सविकल्पकत्वं नाप्यसौ ज्ञानस्यात्मगतो धर्मो नीलादिवद्वहीरूपेण भासनात्। अन्यथा हि नीलादीनामपि ज्ञानधर्मत्वं स्यात्। अविशेषात् । ततश्च विज्ञानमात्रमेव विश्वं स्यात् न भूतपरिणामरूपम् । ननु साकारज्ञानपक्षे नीलादिप्रकारो ज्ञानस्यात्मगत एव धर्मो बहीरूपेण भासते तत्किमुच्यते बहीरूपेण भासनाज्ज्ञानात्मधर्मो न भवतीति । सत्यमेतत् । किंतु बाह्यार्थोपरागितया ज्ञानस्य तथा प्रतिभासनानात्मगतोऽसौ ज्ञानस्येति व्यवस्थाप्यते । किं तर्हि ? । बाह्यस्यैवेति । तत्रैव तस्य निजत्वात् । ज्ञाने तु तस्यार्थोपधानकृतत्वेनागन्तुकत्वात् । तस्मान खलक्षणरूपः शब्दात्मा वाचको नाप्यसौ ज्ञानात्मधर्मः । सामान्यलक्षणरूपस्तु यद्यपि वाचकस्तथाप्यसौ ज्ञानात्मधर्मो न भवति । बाह्यपरशब्दस्खलक्षणश्रोश्रावसेये तस्य योज्यमानत्वात्, न ज्ञानात्मनि । न बन्यगतं सामान्यमन्यत्र योज्यते, ज्ञानेऽतिप्रसङ्गात् । एवं हि गोत्वमश्वादावपि योज्येत । नचागृहीतशब्दखलक्षणे धर्मिणि तद्धर्मो वाचकात्मा योजयितुं शक्यते । धर्माणां धर्मिपरतत्रतया खातब्येणाग्रहणात् । नापि विकल्पेन स्खलक्षणात्मा धर्मी प्रहीतुं शक्यते । तस्य सामान्यलक्षणविषयत्वात् । तस्मादनादिस्खलक्षणानुभवाहितवासनाप्रबोधजन्मानो विकल्पा इति सिद्धम् । नापि शब्दार्थग्रहणादिति पक्षः, न अर्थे शब्दाः सन्ति तदात्मानो

Loading...

Page Navigation
1 ... 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832