Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 780
________________ AR पलिकासमेतः। हकमुपपातकं चेत्यात्मोपकारकप्रतिकृत्यादिविकल्पस्ततस्तत्परितोषदौमनस्यादिसम्भवस्तस्साच सुखादिविषयाध्यवसायादिप्रसूतय इत्येतच्चान्वयव्यतिरेकाभ्यां प्रतीतमेव । सौमनस्यादिसम्भव एव रागादिदर्शनात् , सत्यपि पुष्ट्यादौ तदसम्भवे चादर्शनात् । • अतो न पुष्ट्यादि साक्षान्मनोमतेर्विकारकम् । अत एव च साक्षादनुपकारित्वात्सहकारिकारणमपि न देहस्तस्या इति सिद्धम् । साक्षादेवोपकारिणामकुरादिषु क्षित्यादीनां सहकारित्वप्रसिद्धेः, अन्यथाऽतिप्रसङ्गः स्यात् । तस्मात्सजातीयपूर्वबीजप्रबोधप्रवृत्तय एव रागादयः । देहपुष्टियौवनकालादयस्तु केषांचित्प्रतिसङ्ख्यानाभ्यासविकलानां तद्वासनाप्रबोधहेतवो भवन्ति । भवतु वा साक्षादुपकारी देहो मनोमतेः खोपादानप्रवृत्तायाः कदाचित् । तथाऽपि न देहनिवृत्तावपि तस्या निवृत्तिः सिद्ध्यति। यथा वह्निनिवृत्तावपि न घटादिविनिवृत्तिः खोपादानप्रवृत्तत्वादिति नानिष्टापत्तिः । नाप्यनैकान्तिकता हेतोरतिप्रसङ्गात् । नापि विरुद्धता सपक्षे भावात् । अतो नोपादानकारणं देहः । नापि सहकारिकारणमिति सिद्धं मनोमतेः पूर्वपूर्वबुद्धिप्रभवत्वमेव । स्यादेतत्-ययोः सहस्थितिनियमस्तावुपादानोपादेयभूतौ यथा प्रदीपप्रभे । अस्ति च सहस्थितिनियमः शरीरमनोविज्ञानयोरिति स्वभावहेतुः । तदयमन्यतरासिद्धो हेतुः । विरूपे धातौ शरीरमन्तरेणापि मनोमतेरवस्थानाभ्युपगमात् । नापीष्टसिद्धिर्मनोमतेरपि देहं प्रत्युपादानत्वप्रसङ्गात् । अनैकान्तिकता च । हेतुभेदादपि सहावस्थानसम्भवात् । यथाऽग्निताम्रद्रवत्तयोः । तथाहि वह्निसहकारितानं द्रवत्तामारभते, न केवलम् , एवमिहापि देहस्योपादानं कललादि मनोविज्ञानसहकारि देहमुत्तरमारभते, इत्यतस्तयोः सह स्थानं नोपादानोपादेयभावादित्यतोऽनेकान्त एव । अथापि स्यात्-यद्यप्युत्तरकालं मनोधीः पूर्वपूर्वबुद्धिप्रभवा भवति, तथापि या प्रथमकालभाविनी तस्या देहोपादानत्वादतो नाऽनादित्वसिद्धिरिति । तदेतदसम्यक् । न ह्यस्याः कल्पनायाः किंचित्साधकं प्रमाणमस्तीति प्रतिपादितमेतत् । बाधकमपि नास्तीति चेन्न । विद्यत एव बाधकम् । तथाहि-यदि देहात्सकदुत्पन्ना सती मनोधीः पश्चात्सजातिसमुद्भवा स्यात्तदोत्तरकालं सर्वदैव पूर्वपूर्वमनोविज्ञानसमुद्भवैव स्यात्, न विजातीयचक्षुरादिविज्ञानसमुद्भवा, न हि धूमोऽमेः सदुद्भूय पश्चादन्यतो विजातीयादुद्भवति । नच मनोमतिरुचरकालं मनोविज्ञानसमुद्भवैवानुभूयते । किं तर्हि । अनियतसमनन्तरप्रत्ययप्रसवा । नच यद्यतः प्रथमतरमुदयमासादयत्समुपलब्धं तत्ततोऽन्यतो भवितुमर्हति, आहेतुकत्वप्रसङ्गात् ।

Loading...

Page Navigation
1 ... 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832