Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 778
________________ पखिकासमेतः। ५२. तस्य पूर्वनिषिद्धत्वात् । चतुर्महाभूतात्मकत्वहानिप्रसङ्गाश्च न टेकस्य स्वभावचतुष्टयं युक्तमनेकव्यवहारोच्छेदप्रसङ्गात् । न(च) स्यादनेकपरमाणुसंचयात्मकोऽङ्गीकर्तव्यः । ते च परमाणवः प्रत्येकं वा हेतवः स्युः समुदिता वा । न तावत्प्रत्येकं, प्रतिबीजाकरोत्पादवत्प्रतिपरमाणुविकल्पोत्पत्तिप्रसङ्गात् । नापि समुदिताः, नासिकायेकाङ्गवै. कल्येऽपि मानसानुत्पादापत्तेः, क्षित्यादीनामन्यतरापायेऽडरानुत्पत्तिवत् । नहि सामग्रीप्रतिबद्धं कार्यमन्यतराभावे भवति, तत्प्रतिबद्धस्वभावत्वहानिप्रसङ्गात् । अथ यथा सन्निधानं सर्वेऽपि चैतन्यस्य हेतवः। एवं तर्हि विकलाविकलाङ्गदेहजनितयोर्विशेषेण भवितव्यं कारणभेदात् । अन्यथा कार्यस्य भेदो निर्हेतुकः स्यात् । न वाऽविकलाङ्गस्य सतः पश्चाद्विकलाङ्गतायामुपजातायां कश्चिन्मनोमतेर्विशेषोऽस्ति । श्रुतादिसंस्कारस्य तदानीमप्यविकलस्यैवानुवृत्तेः। गजादिदेहवर्तिनी च मनोमतिरतिशयवती प्राप्नोति, न मनुष्यधीः । ये बाल्यशरीरमनुजन्मानस्ते मन्दधियः, महाशरीरास्तु पटुधियः। कारणस्य निर्हासातिशयाभ्यां कार्यस्य निर्हासातिशययो. गदर्शनात् । नहि यद्भेदाद्यस्य भेदो न भवति, तत्तस्य कार्य युक्तमतिप्रसङ्गात् । कार्यभेदस्य च निर्हेतुकत्वप्रसङ्गाच्च । नापि सेन्द्रिय इति पक्षः । तथाहीन्द्रियात्प्रत्येक वा मनोमतिः स्यात्समस्ताद्वा । न तावत्प्रत्येकम् , एकैकेन्द्रियापायेऽपि मनोमतेरविकलत्वात् । तथाहि-प्रसुप्तिकादिरोगादिना कार्येन्द्रियादीनामुपघातेऽपि मनोधीरविकृतैकाऽविकलां स्वसत्तामनुभवति । नच यस्य विकारेऽपि यन्न विक्रियते तत्तत्कार्य युक्तमतिप्रसङ्गात् । किंच-चक्षुरादिविज्ञानवत्प्रतिनियतार्थप्राहिता निविकल्पकत्वमर्थसन्निधानसापेक्षप्रवृत्तिकता च प्राप्नोति, अमिन्नकारणत्वात् । युगपदनेकविकल्पोत्पत्तिप्रसङ्गाच्च । नापि समस्तादिति पक्ष:-एकेन्द्रियाभावेऽप्यभावप्रसङ्गात् । एकसहकार्यपायेऽङराद्यपायवत् । नाप्यनिन्द्रिय इति पक्षः, कलेवरच्युतस्यापि पाण्यादेस्तद्धेतुत्वप्रसङ्गात् । विशिष्टस्य हेतुत्वे सेन्द्रिय एवेष्टः स्यात् । नहि सेन्द्रियादन्यो विशिष्टः शक्यते दर्शयितुम् । नाप्युपादनकारणमिति पक्षः । तथाहि -यः कार्यगताशेषविशेषानुयायिनः स्वभावस्य सदा चात्मसत्ताप्रत्युपस्थानतस्तदुपकारी यस्य विकारापादनमन्तरेण कार्यमशक्यविकारं स एव कारणविशेष उपादानत्वेन प्रसिद्धः । यथा पूर्वपूर्वो मृदात्मा कलाप उत्तरोत्तरस्य घटसंशितस्य कार्यकला. पस्योपादानम् । अत एव यो यद्विकारयितुमिच्छति स तदुपादानविकारेणैव तद्विकारयति नान्यथा । न छुपादाने पूर्वस्मिन्न प्रतिबद्धसामर्थे, सति कार्यस्योत्तरसोलि

Loading...

Page Navigation
1 ... 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832