Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 777
________________ तत्त्वसङ्ग्रहः। प्राप्तानुपलम्भोपदर्शने तु सा निषिद्धा भवति । तत्र तस्या व्यभिचारात् । एवं तापदन्वयात्कार्यनिश्चयः । व्यतिरेकादपि कार्यनिश्चये सत्सु तदन्येषु समर्थेषु तद्धेतुषु यस्सैकस्याभावे न भवतीत्येवमाश्रयणीयम् , अन्यथा हि केवलं तदभावे न भवतीन्युपदर्शने सन्दिग्धमत्र तस्य सामर्थ्य स्यात् , अन्यस्यापि तत्समर्थस्याभावात् , ततश्चैवमपि सम्भाव्येत-अन्यदेव तत्र समर्थमस्ति, तदभावात्तन्निवृत्तं, यत्पुनरेतनिवृत्तौ सत्यामस्य निवृत्तिरुपलभ्यते सा यदृच्छासंवादः । मातृविवाहोचितदेशजन्मनः पिण्डखजूंरस्यान्यत्र देशे मातृविवाहाभावे सत्यभाववत् । तस्मात्समर्थेष्विति विशेषणीयम् । एवं हि तस्यैव कारणत्वं निश्चीयते, तद्व्यतिरेकस्यैवानुविधानात् । नह्यनुपकारिणो व्यतिरेकः केनचिनुविधीयतेऽतिप्रसङ्गात् । एवमन्वयव्यतिरेकाभ्यामसंदिग्धं कार्यकारणत्वं प्रतीयते नान्यथा । न चेदृशोऽन्वयो व्यतिरेको वा कायचित्तयोनिश्चितोऽस्ति । तथाहि-न तावत् स्वदेहबुद्ध्योरन्वयनिश्चयः शक्यते कर्तु गर्भादौ प्राश्चित्तोत्पत्तेः केवलकायोपलम्भाभावात् , नहि चित्तमन्तरेणोपलम्भो भवति । परशरीरेऽपि चेतसोऽनुपलब्धिलक्षणप्राप्तत्वान्न पौर्वापर्यग्रहणमस्ति । ततो नान्वयनिश्चयः । नापि व्यतिरेकनिश्चयः । तत्रापि हि न तावदात्मदेहव्यतिरेकेण स्वबुद्धिव्यतिरेको ज्ञातुं शक्यः, सर्वथा स्वयमभावात् । नापि परदेहव्यतिरेकेण तत्सम्बन्धिन्या बुद्धेर्व्यतिरेको निश्चेतुं पार्यते। तद्बुद्धेरनुपलब्धिलक्षणप्राप्तत्वेन देहनिवृत्तावपि बुद्धिव्यतिरेके संशयात् । अतएव कुट्यादौ देहाभावेऽपि न बुद्धिव्यतिरे. कनिश्चयः । तत्रापि तत्सत्तायामनुपलब्धिलक्षणप्राप्तत्वेन संशयात् । परिस्पन्दादिकार्य(यो ?)दर्शनादप्यभावनिश्चयो न युक्तः, नावश्यं (हि) कारणानां कार्यवत्त्वात् (स्वम् ?) अपिच देहविशेषपरिप्रहहेतोस्तृष्णाविपर्यासलक्षणस्य स्वकारणस्याभावाकि तत्र कुट्यादौ बुद्धेरभाव आहोखिदेहव्यतिरेकादिति संशयः । तस्मान्नासिद्धो हेतुः । नापि. विरुद्धः सपक्षे भावात् । नाप्यनैकान्तिकोऽतिप्रसङ्गात् , प्रेक्षावत्वहानिप्रसङ्गाच । तव तर्हि बुद्धेन देहः कारणमित्यत्र किं बाधकं प्रमाणमिति चेन्न, समस्त्येव प्रमाणम् । तथा च मनोमतेर्न देहः कारणमित्यत्र स्वतत्रा मानसी बुद्धिरित्यादिना प्रमाणमुपदर्शयिष्यति । तस्या एव देहान्तरप्रतिसन्धानं प्रत्याधिपत्त्याइहानाश्रितत्वे सिद्धे परलोकसिद्धेः। किंच-मनोमतेदेहः कारणं भवतु, एकोऽवयवि. रूपो वा भवेदनेको वा परमाणुसंचयात्मकः, यद्वा-सेन्द्रियोऽनिन्द्रियो वा, किमुपादानकारणमाहोस्वित्सहकारिकारणमिति विकल्प्यते तत्र न तावदेकोऽवयवी युक्तः,

Loading...

Page Navigation
1 ... 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832