Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 775
________________ १२४ तत्त्वसङ्ग्रहः । भूताः सन्तानिनो व्यवहारलाघवाय सामस्त्येन युगपत्प्रकाश्यन्ते, वनादिशब्देनेव धवादयः ।। १८७२ ।। १८७३ ।। १८७४ ।। १८७५ ।। १८७६ ।। १८७७ ॥ कथं तर्हि सन्ततेरवस्तुत्वं पूर्वमुक्तं सन्तानादीव कारित्रमित्यत्र प्रस्ताव इत्याहएकवेनेत्यादि । एकत्वे नाव क्लृप्तत्वान्निः खभावतया मता । तस्वान्यत्वाद्यनिर्देश्या वियत्कमलपतिवत् ॥ १८७८ ॥ सा चानादिरनन्ता च न सिद्धिं कथमृच्छति । यथहेतुकमेतत्स्याच्चित्तमायतया मतम् ॥ १८७९ ॥ नित्यहेतुसमुद्भूतं नित्यं सत्खत एव वा । भूतमात्रोद्भवं वाऽपि यद्वाऽन्यज्ञानमात्रजम् ॥ १८८० ॥ गर्भादावादिविज्ञानं तत्राहेतु न युज्यते । कादाचित्कतया सत्त्वं सर्वथाऽस्यान्यथा भवेत् ।। १८८१ ॥ नापि नित्यमनःकालदिगीशात्मादिभिः कृतम् । तत एव सदा सत्वप्रसङ्गात्तदभावतः ॥ १८८२ ॥ एकं नित्यस्वभावं च विज्ञानमिति साहसम् । रूपशब्दादिचित्तानां व्यक्तं भेदोपलक्षणात् ॥ १८८३ ॥ क्षोणीतेजोजलादिभ्यो भूतेभ्यो भूतिरस्य न । व्यक्तिव सर्वचिन्तानां यौगपद्यप्रसङ्गतः ॥ १८८४ ॥ स्थिररूपं परैरिष्टं तद्धि भूतचतुष्टयम् । सहकारिव्यपेक्षाऽपि स्थिरे पूर्वमपाकृता ॥ १८८५ ॥ या त्वेकत्वेन कल्पिता सन्ततिः सा तत्त्वान्यत्वाभ्यामवाच्यत्वादवस्तुत्वेनामिमता - आकाशाम्भोरुहपक्तिवदिति, न तस्या अवस्थाविशेषे परलोकव्यवस्थाऽस्माभिः क्रियते । अथास्या एव विज्ञानादिसन्ततेः परलोकसंज्ञितायाः प्रतिषेधः क्रियते, तदा तस्यास्तावत्स्वरूप निषेधद्वारेण परलोकनिषेधो न शक्यते कर्तु दृष्टस्यापहोतुमशक्यत्वात् । किं तर्हि ? । अनाद्यनन्तत्वधर्मनिषेधद्वारेण । सा चेयमनाद्यनन्ता कथं न सिद्ध्यति । यदि यत्तज्जन्मन्चित्तमाद्यतया मतं निर्हेतुकं वा स्यात्, नित्यविज्ञानेश्वरादिहेतुसमुद्भूतं वा, यद्वा स्वत एवं नित्यं, भूतमात्रादुत्पन्नं वा, अन्यसन्ता

Loading...

Page Navigation
1 ... 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832