Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 773
________________ १२२ तत्वसङ्ग्रहः। ज्ञानाधारात्मनोऽसत्त्वे देह एव तदाश्रयः । .. अन्ते देहनिवृत्तौ च ज्ञानवृत्तिः किमाश्रया ॥ १८६८ ॥. - इन्द्रियार्थो हि विज्ञानोत्पत्तेः कारणम् , अर्थाधिगमरूपत्वाज्ज्ञानस्य, कललाद्यवस्थायां चेन्द्रियार्थयोरभावात्कथं तत्कार्य विज्ञानं स्यादिति कारणानुपलब्ध्या मूर्छाधवस्थायां विज्ञानाभावः सिद्ध इति समुदायार्थः । नच शक्तिरूपेण तदा विज्ञानमस्तीति कल्पयितुं युक्तं, ज्ञानाश्रयस्यात्मनो नैयायिकादिप्रकल्पितस्य विज्ञानप्रबन्धस्य वा तदानीमभावात् । नच निराश्रया शक्तियुक्ता । तस्मात्सामादेह एव तदानीमाश्रयः । अन्यस्य ज्ञानाधारात्मनः-ज्ञानाधारश्च भावस्य विज्ञानप्रबन्धस्यात्मनो वा तदानीमसत्त्वात् । ततश्चान्ते मरणावस्थायां देहस्साश्रयस्य निवृत्तौ निराश्रयं कथं ज्ञानमवतिष्ठतेति सिद्धोऽनागतजन्माभावः ॥ १८६५ ॥ १८६६ ॥१८६७॥ ॥ १८६८॥ तदनन्तरसम्भूतदेहान्तरसमाश्रयः। . यदि देहोऽपरो दृष्टः कथमस्तीति गम्यते ॥ १८६९ ॥ भिन्नदेहप्रवृत्तं च गजवाज्यादिचित्तवत् । . एकसन्ततिसम्बद्धं तद्विज्ञानं कथं भवेत् ॥ १८७० ॥ एको ज्ञानाश्रयस्तस्मादनादिनिधनो नरः । संसारी कश्चिदेष्टव्यो यद्वा नास्तिकता परा ॥ १८७१ ॥ अथापि स्यान्मरणसमनन्तरसमुद्भूतमन्तरामविकं देहमाश्रित्य चित्तवृत्तिर्भविष्यतीति, तदेतदसम्यक् । नहि मरणानन्तरमपरो देह उत्पद्यमानो दृष्टः । नचादृष्टस्यास्तित्वनिश्चयो युक्तः । तस्यासद्व्यवहारविषयत्वात् । नचैकसन्तानवर्तिनश्चेतसो देहान्तरसमाश्रयणं युक्तम् , गजवाज्यादिचित्तवदेकसन्तानसम्बन्धित्वहानिप्रसङ्गात् । प्रयोगः-यदिनदेहप्रवृत्तं विज्ञानं न तदेकसन्तानसम्बद्धं, यथा गजवाजिनोश्चित्तं, मिन्नदेहवृत्तं चान्तराभाबमरणभवयोश्चित्तमिति व्यापकविरुद्धोपलम्भप्रसङ्गः । नचैवं, तस्माद्विपर्ययः । यदेकसन्तानसम्बद्धं तद्भिनदेहप्रवृत्तं न भवति, यथा गजचित्तमश्वदेहानाश्रितम् , एकसन्तानसम्बद्धं च प्राणिनश्चित्तमिति विरुद्धव्याप्तोपलब्धिः । मिनदेहप्रवृत्तत्वविरुद्धेनामिन्नदेहप्रवृत्तत्वेनैकसन्तानसंबद्धत्वस्य व्याप्तस्वात् । एक इत्याधुपसंहारः । माविरुत्पादो निधनं नाशः, न विद्यते आदिनिधने यस्खासा

Loading...

Page Navigation
1 ... 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832