Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 772
________________ पखिकासमेतः। ५२१ अपिच-यद्यतीतदेहवर्तिनश्चेतसः प्रथमजन्मचित्तं प्रति कारणभावः स्यात् , मरणचिचल चागामिचित्तं प्रति, तदा चित्तप्रतिबन्धानुपरमात्परलोककल्पना सात् , यावता प्रथमयोस्तावद्विवादास्पदीभूतयोश्चेतसोर्न कार्यकारणताऽस्ति मिनदेहवर्तित्वात् , गवाश्ववर्त्तिनोरिव ज्ञानयोः। अथवा-जन्मबुद्धयो धर्मिण्यः, तासामतीतदेहवर्तिचरमविज्ञानजन्यत्वप्रतिषेधः साध्यः, ज्ञानत्वादिति सामान्यं हेतुः, अन्यसन्तानवर्तिन्यो बुद्धयो निदर्शनम् । प्रयोगस्त्वेवम्-यदि ज्ञानं, न तद्विवक्षितातीतदेहवर्तिचरमझानजन्यम् , ज्ञानत्वात् , यथाऽन्यसन्तानवर्ति ज्ञानम् । ज्ञानरूपाश्चेमा विवक्षितदेहवर्त्तिन्यो जन्मबुद्धय इति विरुद्धव्याप्तोपलब्धिः विवक्षितविझानजन्य(त्व)विरुद्धेन ज्ञानत्वस्य व्याप्तत्वात् ॥ १८६१ ॥ १८६२ ॥ एवं तावदतीतजन्मनिषेधः कृतः । साम्प्रतमनागतजन्मनिषेधायाह-सरागस्वेत्यादि । सरागमरणं चित्तं न चित्तान्तरसन्धिकृत् । मरणज्ञानभावेन वीतक्लेशस्य तद्यथा ॥ १८६३ ।। सरागस्य मरणचित्तं चित्तान्तरं न प्रतिसन्धत्ते, मरणचित्तत्वादहवरमचित्तवदिति व्यापकविरुद्धोपलब्धिः । वीतक्लेशस्य तद्यथेति । मरणज्ञानम् ।। १८६३ ॥ कुतस्तर्हि चित्तस्योत्पत्तिरित्याह-कायादेवेत्यादि । कायादेव ततो ज्ञानं प्राणापानाधिष्ठितात्। युक्तं जायत इत्येतत्कम्बलाश्वतरोदितम् ॥ १८६४ ॥ तथाच सूत्रम्-कायादेवेति । कम्बलाश्वतरोदितमिति ॥ १८६४ ॥ ननु च कायानिष्पत्तावपि कललाद्यवस्थायां विज्ञानमस्त्येव मूर्छितम् , तचातीतभेदविज्ञानजन्यतया सिद्धम् , कथं कायादेवेति नियम इत्याह-कललादिग्वित्यादि। कललादिषु विज्ञानमस्तीत्येतच साहसम् । असमातेन्द्रियत्वाद्धि न तत्रार्थोऽवगम्यते ॥१८६५॥ न चार्थावगतेरन्यद्रूपं ज्ञानस्य युज्यते । मूळदावपि तेनास्य सद्भावो नोपपद्यते ॥ १८५६ ॥ नचापि शक्तिरूपेण तदा धीरवतिष्ठते। निराश्रयत्वाच्यक्तीनां स्थितिर्न अवकल्पते ॥ १८६७ ॥

Loading...

Page Navigation
1 ... 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832