Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 770
________________ पखिकासमेतः। न्यभूत्वा भवति, तथा सिद्धमनागतं चक्षुर्नास्तीति । अपिच सदाऽवस्थितत्वे संस्काराणां हेतुफलयोरभावात् दुःसमुदयसत्याभावः, तदभावाग्निरोधमार्गयोरपि, ततश्च सत्यचतुष्टयाभावात्परिक्षाप्रहाणसाक्षाक्रियाभावना न युज्यन्ते, तदभावाच फलस्थानां प्रतिपन्नकानां च पुद्गलानामभाव इति सकलमेव प्रवचनं निरुध्यत इति नातीतादिवस्तुजातकल्पना साध्वी ॥ १८५२ ॥ अतीतानागतज्ञानं विभक्तं योगिनां कथमित्यत्राह-पारम्पर्येणेत्यादि । पारम्पर्येण साक्षाद्वा कार्यकारणतां गतम् । यद्रूपं वर्तमानस्य तद्विजानन्ति योगिनः ॥ १८५३ ॥ अनुगच्छन्ति पश्चाच विकल्पानुगतात्मभिः। शुद्धलौकिकविज्ञानस्तत्वतोऽविषयैरपि ॥ १८५४ ॥ तद्धेतुफलयोभूतां भाविनीं चैव सन्नति । तामाश्रित्य प्रवर्तन्तेऽतीतानागतदेशनाः॥१८५५ ॥ समस्तकल्पनाजालरहितज्ञानसन्ततः। तथागतस्य वर्तन्तेऽनाभोगेनैव देशनाः ॥ १८५६ ॥ इति त्रैकाल्यपरीक्षा। अतीतार्थापेक्षया कार्यतां गतम् , अनागतापेक्षया कारणताम् । विकल्पानुगतात्मभिरिति । सविकल्पैरित्यर्थः । तत्त्वतोऽविषयैरिति । आविष्टामिलापैनैिः स्वलक्षणस्याविषयीकरणात् । तत्-तस्मात् । हेतुफलयोः सन्तति भूतां भाविनी चाश्रिता अतीतादिदेशना योगिनामपरिशुद्धानां प्रवर्तन्ते । भगवतस्तु तथागतस्य शुद्धलौकिकमपि ज्ञानं नास्ति, नित्यसमाहितत्वात्सर्वाविद्याप्रहाणेन । विकल्पस्य चाविद्यास्वभावत्वात् । यदाह-"विकल्पः खयमेवायमविद्यारूपतां गतः । स्वाकारपाझरूपेण यस्मादारोप्य वर्त्तते ॥” इति तस्य पूर्वप्रणिधानपुण्यज्ञानसम्भारसाम दिवाप्तचिन्तामणिसदृशात्मभावस्थानाभोगेनैव देशनाः प्रवर्तन्ते ॥ १८५३ ॥ ॥ १८५४ ॥ १८५५ ॥ १८५६॥ इति त्रैकाल्यपरीक्षा। मनायन्तमित्येतत्समर्थनार्थ चोद्योपक्रमपूर्वकमाह-यदीत्यादि । यदि नानुगतोभावः कश्चिदप्यत्र विद्यते। परलोकस्तदा न सावभावात्परलोकिनः ॥ १८५७॥

Loading...

Page Navigation
1 ... 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832