________________
पखिकासमेतः। न्यभूत्वा भवति, तथा सिद्धमनागतं चक्षुर्नास्तीति । अपिच सदाऽवस्थितत्वे संस्काराणां हेतुफलयोरभावात् दुःसमुदयसत्याभावः, तदभावाग्निरोधमार्गयोरपि, ततश्च सत्यचतुष्टयाभावात्परिक्षाप्रहाणसाक्षाक्रियाभावना न युज्यन्ते, तदभावाच फलस्थानां प्रतिपन्नकानां च पुद्गलानामभाव इति सकलमेव प्रवचनं निरुध्यत इति नातीतादिवस्तुजातकल्पना साध्वी ॥ १८५२ ॥ अतीतानागतज्ञानं विभक्तं योगिनां कथमित्यत्राह-पारम्पर्येणेत्यादि ।
पारम्पर्येण साक्षाद्वा कार्यकारणतां गतम् । यद्रूपं वर्तमानस्य तद्विजानन्ति योगिनः ॥ १८५३ ॥ अनुगच्छन्ति पश्चाच विकल्पानुगतात्मभिः। शुद्धलौकिकविज्ञानस्तत्वतोऽविषयैरपि ॥ १८५४ ॥ तद्धेतुफलयोभूतां भाविनीं चैव सन्नति । तामाश्रित्य प्रवर्तन्तेऽतीतानागतदेशनाः॥१८५५ ॥ समस्तकल्पनाजालरहितज्ञानसन्ततः। तथागतस्य वर्तन्तेऽनाभोगेनैव देशनाः ॥ १८५६ ॥
इति त्रैकाल्यपरीक्षा। अतीतार्थापेक्षया कार्यतां गतम् , अनागतापेक्षया कारणताम् । विकल्पानुगतात्मभिरिति । सविकल्पैरित्यर्थः । तत्त्वतोऽविषयैरिति । आविष्टामिलापैनैिः स्वलक्षणस्याविषयीकरणात् । तत्-तस्मात् । हेतुफलयोः सन्तति भूतां भाविनी चाश्रिता अतीतादिदेशना योगिनामपरिशुद्धानां प्रवर्तन्ते । भगवतस्तु तथागतस्य शुद्धलौकिकमपि ज्ञानं नास्ति, नित्यसमाहितत्वात्सर्वाविद्याप्रहाणेन । विकल्पस्य चाविद्यास्वभावत्वात् । यदाह-"विकल्पः खयमेवायमविद्यारूपतां गतः । स्वाकारपाझरूपेण यस्मादारोप्य वर्त्तते ॥” इति तस्य पूर्वप्रणिधानपुण्यज्ञानसम्भारसाम
दिवाप्तचिन्तामणिसदृशात्मभावस्थानाभोगेनैव देशनाः प्रवर्तन्ते ॥ १८५३ ॥ ॥ १८५४ ॥ १८५५ ॥ १८५६॥
इति त्रैकाल्यपरीक्षा। मनायन्तमित्येतत्समर्थनार्थ चोद्योपक्रमपूर्वकमाह-यदीत्यादि ।
यदि नानुगतोभावः कश्चिदप्यत्र विद्यते। परलोकस्तदा न सावभावात्परलोकिनः ॥ १८५७॥