________________
तस्वसदः।
विजानातीति विज्ञानमिति गीयते, असति च विझये कि विज्ञानं सावित्याहबोधानुगतिमात्रेणेति ।
बोधानुगतिमात्रेण विज्ञानमिति चोच्यते ।
सा चास्याजडरूपत्वं प्राकाश्यात्परिकल्पितम् ॥ १८४९ ॥ बोधानुगमोऽपि विना बोधेन (न) सम्भवतीति चेदाह-सा चेति । सा-बोधानुगतिः। अस्य-विज्ञानस्य । किमुच्यते ?, यत्तदजडरूपत्वम्, प्रकाश्यवस्वन्तराभावात्प्रकाशान्तरविरहाच नभोवल्लोकवत्प्रकाशरूपत्वादभिधीयते बोधरूपतेति ॥ १८४९॥ कर्मातीतं च कथं फलदमित्यत्राह-विपाकहेतुरित्यादि ।
विपाकहेतुः फलदो नातीतोऽभ्युपगम्यते ।
सद्वासितातु विज्ञानप्रबन्धात्फलमिष्यते ॥ १८५०॥ वासितं परम्परया फलोत्पादनसमर्थमुत्पादितम् ॥ १८५० ।।
यद्येवं कथमुक्तं भगवता, 'अस्ति तत्कर्म यत्क्षीणं निरुद्धं विपरिणतमित्याह'तामेवेति ।
तामेव वासनां चेतासन्ततावधिकृत्य तत्।
अस्ति कर्मेति निर्दिष्टं भक्त्या मूलाविनाशवत् ॥१८५१॥ 'भक्त्येति । उपचारेण । यथा मूलद्रव्यप्रसूतस्य हिरण्यादेः फलप्रबन्धस्य स(म)भावे विनष्टमपि मूलद्रव्यमविनष्टमित्युच्यते तद्वत्कर्मापि ॥ १८५१ ॥ उपचारेण देशनायाः किं प्रयोजनमित्याह-उच्छेददृष्टीति ।
उच्छेददृष्टिनाशाय चैवं शास्त्रा प्रकाशितम् ।
अन्यथा शून्यतासूत्रे देशना नीयते कथम् ।। १८५२॥ नात्यतीतं कर्मेत्युक्ते पारम्पर्येण यत्फलोत्पादनसामर्थ्यमाहितमतीतेन कर्मणा तस्याप्यभावं प्रतिपधेरनित्युच्छेददृष्टिमापनाः स्युर्विनेया इत्यस्ति कर्मेत्युक्तं भगवता। अन्यथा हि यद्यतीतं स्वरूपेण स्यात्तदा परमार्थशून्यता सूत्रे देशना कथं नीयते । चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति निरुद्ध्यमानं न कचित्सभिचयं गच्छतीति हि चक्षुरभूत्वा भवति भूत्वा च प्रतिविगच्छतीति । वर्तमानेऽध्वन्यभूत्वा भवतीति चेन्न । अध्वनो भावानर्थान्तरत्वात्त एवाध्यानस्तथाऽवस्थितिवचनात् । अथ स्वात्म