________________
पत्रिकालमेवा। लिखत्वात् । यथाह नासिद्धे भावधर्मोऽस्तीति । भथापि सिद्धाः स्युः, तथापि वर्चमानत्वसिद्धर्धर्मस्वरूपविपरीतसाधनाविरुद्धा हेतवः ॥ १८४३ ॥
कथमिदानीमध्वसंगृहीतत्वमतीतानागतानां रूपादीनां निर्दिष्टम् , नहि शशविपाणमसन्तासदतीतमनागतं वा व्यवस्थाप्यत इत्याह-भूत्वेत्यादि ।
भूत्वा यद्विगतं रूपं तदतीतं प्रकाशितम् । सति प्रत्ययसाकल्ये भावि यत्तदनागतम् ॥ १८४४॥ . सत्त्वे तु वर्तमानवमासज्येतेति साधितम् ।
विद्यमानत्वमात्रं हि वर्तमानस्य लक्षणम् ॥ १८४५ ॥ सुबोधम् ॥ १८४४ ॥ १८४५ ॥ रूपवेदनादिभावस्तर्हि कथं निर्दिष्ट इत्याह-रूपादित्वमित्यादि ।
रूपादित्वमतीतादेर्भूतां तां भाविनी तथा।
अध्यारोप्य दशामस्य कथ्यते न तु भावतः ॥ १८४६ ॥ तां दशामिति । वामवस्थाम् ॥ १८४६ ॥ व्याश्रयं तर्हि कथं विज्ञानमुक्तमित्याह-द्वयं प्रतीत्येति ।
द्वयं प्रतीत्यविज्ञानं यदुक्तं तत्त्वदर्शिना ।
सेष्टा सविषयं चित्तमभिसन्धाय देशना ।। १८४७ ॥ द्विविधं हि विज्ञानं सालम्बनमनालम्बनं च, यत्सालम्बनं तदमिसन्धाय त्याभयविज्ञानदेशना भगवतः ॥ १८४७ ॥ अथ निरालम्बनमपि ज्ञानमस्तीति कथमवसितमित्याह-नित्येश्वरादीत्यादि ।
नित्येश्वरादिबुद्धीनां नैवालम्बनमस्ति हि।
शब्दनामादिधर्माणां तदाकारवियुक्तितः ॥ १८४८॥ आदिशब्देन प्रधानकालादयः परिकल्पिता गृह्यन्ते । न चैतन्मन्तव्यं शब्दाचालम्बना इमा बुद्धय इति कथयति-शब्दनामादीत्यादि । तस्येश्वरादेराकारो नित्यत्वसकलहेतुत्वादिः, यस्तया बुद्ध्याऽध्यवसीयते, तेनाकारेण वियोगः शब्दस्य नामो वा विप्रयुक्तसंस्कारविशेषस्य । आदिशब्देन निमित्तादेः परोपगतस्यार्थप्रतिबिम्बकादिखभावस्य ॥ १८४८ ॥
परि बर्हि निर्विषयमपि विज्ञानमति तत्कर्ष शानमिति म्यपदिश्यते, वसाह