Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 768
________________ पत्रिकालमेवा। लिखत्वात् । यथाह नासिद्धे भावधर्मोऽस्तीति । भथापि सिद्धाः स्युः, तथापि वर्चमानत्वसिद्धर्धर्मस्वरूपविपरीतसाधनाविरुद्धा हेतवः ॥ १८४३ ॥ कथमिदानीमध्वसंगृहीतत्वमतीतानागतानां रूपादीनां निर्दिष्टम् , नहि शशविपाणमसन्तासदतीतमनागतं वा व्यवस्थाप्यत इत्याह-भूत्वेत्यादि । भूत्वा यद्विगतं रूपं तदतीतं प्रकाशितम् । सति प्रत्ययसाकल्ये भावि यत्तदनागतम् ॥ १८४४॥ . सत्त्वे तु वर्तमानवमासज्येतेति साधितम् । विद्यमानत्वमात्रं हि वर्तमानस्य लक्षणम् ॥ १८४५ ॥ सुबोधम् ॥ १८४४ ॥ १८४५ ॥ रूपवेदनादिभावस्तर्हि कथं निर्दिष्ट इत्याह-रूपादित्वमित्यादि । रूपादित्वमतीतादेर्भूतां तां भाविनी तथा। अध्यारोप्य दशामस्य कथ्यते न तु भावतः ॥ १८४६ ॥ तां दशामिति । वामवस्थाम् ॥ १८४६ ॥ व्याश्रयं तर्हि कथं विज्ञानमुक्तमित्याह-द्वयं प्रतीत्येति । द्वयं प्रतीत्यविज्ञानं यदुक्तं तत्त्वदर्शिना । सेष्टा सविषयं चित्तमभिसन्धाय देशना ।। १८४७ ॥ द्विविधं हि विज्ञानं सालम्बनमनालम्बनं च, यत्सालम्बनं तदमिसन्धाय त्याभयविज्ञानदेशना भगवतः ॥ १८४७ ॥ अथ निरालम्बनमपि ज्ञानमस्तीति कथमवसितमित्याह-नित्येश्वरादीत्यादि । नित्येश्वरादिबुद्धीनां नैवालम्बनमस्ति हि। शब्दनामादिधर्माणां तदाकारवियुक्तितः ॥ १८४८॥ आदिशब्देन प्रधानकालादयः परिकल्पिता गृह्यन्ते । न चैतन्मन्तव्यं शब्दाचालम्बना इमा बुद्धय इति कथयति-शब्दनामादीत्यादि । तस्येश्वरादेराकारो नित्यत्वसकलहेतुत्वादिः, यस्तया बुद्ध्याऽध्यवसीयते, तेनाकारेण वियोगः शब्दस्य नामो वा विप्रयुक्तसंस्कारविशेषस्य । आदिशब्देन निमित्तादेः परोपगतस्यार्थप्रतिबिम्बकादिखभावस्य ॥ १८४८ ॥ परि बर्हि निर्विषयमपि विज्ञानमति तत्कर्ष शानमिति म्यपदिश्यते, वसाह

Loading...

Page Navigation
1 ... 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832