Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 766
________________ पञ्जिकासमेतः । किंचन केवलं सिद्धान्तविरोधो मानविरोधोऽपि प्रतिज्ञायाः । तथाहियत्सन्तत्सर्व क्षणिकं यथा वर्त्तमानं, सन्तश्वातीतानागता इति नियमात्क्षणभङ्गिनः प्राप्ताः । प्राक्तु — क्षणभङ्गाधिकारे, प्रतिबन्धोऽस्य हेतोः प्रसाधित इति नानैकान्ति'कत्वम् । तथाहि —— अर्थक्रियाकारित्वं सत्त्वलक्षणम्, अक्षणिकस्य च क्रमयौगपद्याभ्यामर्थक्रियाविरोधादर्थक्रियानिवृत्तौ तल्लक्षणस्य सत्त्वस्य निवृत्तिरिति साध्यविपक्षानिवृत्तं सत्त्वम् ॥ १८३४ ॥ ५१९ अर्थक्रियासमर्थाः स्युरतीतानागता इमे । न वा सामर्थ्य सद्भावे वर्त्तमानास्तदन्यवत् ॥ १८३५ ॥ अवर्त्तमानतायां तु सर्वशक्तिवियोगिनः । नष्टाजाताः प्रसज्यन्ते व्योमतामरसादिवत् ॥ १८३६ ॥ तुल्यपर्यनुयोगाश्च सर्वे व्योमादयोऽकृताः । अनैकान्तिकताकॢप्तेर्न तेपि विनिबन्धनम् ॥ १८३७ ॥ नियमार्थक्रियाशक्तिर्भावानां प्रत्ययोद्भवा । अहेतुत्वे समं सर्वमुपयुज्येत सर्वतः ॥ १८३८ ॥ नियतार्थक्रियाशक्तिजन्म प्रत्ययनिर्मितम् । वर्त्तमानस्य भावस्य लक्षणं नान्यदस्ति च ॥ १८३९ ॥ अतीतानागतानां च तदखण्डं समस्ति वः । तत्किं न वर्त्तमानत्वममीषामनुषज्यते ।। १८४० ॥ , किंच — इमेऽतीतानागता अर्थक्रियासमर्था वा स्युर्न वा समर्था इति पक्षौ । यदि समर्थास्तदा सामर्थ्यसद्भावे वर्त्तमानाः प्राप्नुवन्ति, अविवादास्पदीभूतवर्त्तमानवत् । प्रयोगः —— ये येऽर्थक्रियासमर्थास्ते वर्त्तमानाः यथाऽविवादास्पदीभूता वर्त्त - मानाः, अर्थक्रियासमर्थाश्वातीतादय इति स्वभावहेतुप्रसङ्गः । न चायमनैकान्तिकः, यतो वर्त्तमानत्वनिवृत्तौ नष्टाजातानां सर्वसामर्थ्यवियोगित्वं प्रसज्येत, आकाशाम्भोरुहवत् । प्रयोगः– ये वर्त्तमाना न भवन्ति ते कचित्समर्था अपि न भवन्ति, यथा व्योमाम्भोरुहं, न भवन्ति चातीतादयो वर्त्तमाना इति व्यापकानुपलब्धिः । न चाकाशप्रतिसया निरोधाप्रति सङ्ख्यानिरोधैर संस्कृतैरनेकान्तस्तेषामपि पक्षीकरणात् । अतोऽनैकान्तिकत्वकल्पनाया नातिनिबन्धनम् । तथाहि — येयं प्रतिनियतार्थक्रिया

Loading...

Page Navigation
1 ... 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832