________________
पञ्जिकासमेतः ।
किंचन केवलं सिद्धान्तविरोधो मानविरोधोऽपि प्रतिज्ञायाः । तथाहियत्सन्तत्सर्व क्षणिकं यथा वर्त्तमानं, सन्तश्वातीतानागता इति नियमात्क्षणभङ्गिनः प्राप्ताः । प्राक्तु — क्षणभङ्गाधिकारे, प्रतिबन्धोऽस्य हेतोः प्रसाधित इति नानैकान्ति'कत्वम् । तथाहि —— अर्थक्रियाकारित्वं सत्त्वलक्षणम्, अक्षणिकस्य च क्रमयौगपद्याभ्यामर्थक्रियाविरोधादर्थक्रियानिवृत्तौ तल्लक्षणस्य सत्त्वस्य निवृत्तिरिति साध्यविपक्षानिवृत्तं सत्त्वम् ॥ १८३४ ॥
५१९
अर्थक्रियासमर्थाः स्युरतीतानागता इमे ।
न वा सामर्थ्य सद्भावे वर्त्तमानास्तदन्यवत् ॥ १८३५ ॥ अवर्त्तमानतायां तु सर्वशक्तिवियोगिनः । नष्टाजाताः प्रसज्यन्ते व्योमतामरसादिवत् ॥ १८३६ ॥ तुल्यपर्यनुयोगाश्च सर्वे व्योमादयोऽकृताः । अनैकान्तिकताकॢप्तेर्न तेपि विनिबन्धनम् ॥ १८३७ ॥ नियमार्थक्रियाशक्तिर्भावानां प्रत्ययोद्भवा । अहेतुत्वे समं सर्वमुपयुज्येत सर्वतः ॥ १८३८ ॥ नियतार्थक्रियाशक्तिजन्म प्रत्ययनिर्मितम् । वर्त्तमानस्य भावस्य लक्षणं नान्यदस्ति च ॥ १८३९ ॥ अतीतानागतानां च तदखण्डं समस्ति वः । तत्किं न वर्त्तमानत्वममीषामनुषज्यते ।। १८४० ॥
,
किंच — इमेऽतीतानागता अर्थक्रियासमर्था वा स्युर्न वा समर्था इति पक्षौ । यदि समर्थास्तदा सामर्थ्यसद्भावे वर्त्तमानाः प्राप्नुवन्ति, अविवादास्पदीभूतवर्त्तमानवत् । प्रयोगः —— ये येऽर्थक्रियासमर्थास्ते वर्त्तमानाः यथाऽविवादास्पदीभूता वर्त्त - मानाः, अर्थक्रियासमर्थाश्वातीतादय इति स्वभावहेतुप्रसङ्गः । न चायमनैकान्तिकः, यतो वर्त्तमानत्वनिवृत्तौ नष्टाजातानां सर्वसामर्थ्यवियोगित्वं प्रसज्येत, आकाशाम्भोरुहवत् । प्रयोगः– ये वर्त्तमाना न भवन्ति ते कचित्समर्था अपि न भवन्ति, यथा व्योमाम्भोरुहं, न भवन्ति चातीतादयो वर्त्तमाना इति व्यापकानुपलब्धिः । न चाकाशप्रतिसया निरोधाप्रति सङ्ख्यानिरोधैर संस्कृतैरनेकान्तस्तेषामपि पक्षीकरणात् । अतोऽनैकान्तिकत्वकल्पनाया नातिनिबन्धनम् । तथाहि — येयं प्रतिनियतार्थक्रिया