________________
तस्वसहः। रिण्यां जातावपेक्षायुक्ताऽतिप्रसङ्गात् । उपकारे वा तस्योपकारस्यातिशयवत्तत्वान्यत्वचिन्तायामनवस्थाप्रसङ्गात् । तस्मान्त्यतिरेके सति सम्बन्धो न सिद्ध्यति । किंच
-तस्यातिशयस्य पूर्वमसत्वादसत्कार्यमभ्युपगतं भवेत् । एवं जरयान्यथात्वे क्रियमाणे स्थित्याऽवस्थितेरनित्यतया च नाशे क्रियमाणे, एषामन्यथात्वादीनामन्याऽनन्यविकल्पे सति ये दोषास्ते जातिवजरादिष्वपि वाच्याः ॥ १८२२ ॥ १८२३ ॥ ॥ १८२४ ॥ १८२५ ॥ १८२६ ॥१८२७ ।। १८२८॥
खकार्यारम्भिण इमे सामर्थ्यनियमात्मना। जात्यादयश्च तद्रूपं प्राक्पश्चादपि विद्यते ॥ १८२९ ॥ समर्थरूपभावाच प्रारभन्ते न किं तदा।
खानुरूपां क्रियां तस्याः प्रारम्भे चामिताध्वता॥ १८३०॥ किंच-जात्यादीनां स्वकार्यारम्भित्वं यत्तत्समर्थस्वभावनियमादिष्टं, स च समर्थः स्वभावस्तेषां सर्वदाऽस्तीति सदैव स्वकार्यारम्भित्वप्रसङ्गः । नच हेतुप्रत्ययवैकल्यं तेषामपि सदावस्थितत्वात् । ततश्चातीतानागतावस्थयोर्जात्यादिमिर्जननादिस्वकार्यकरणादेकस्मिनेवाध्वन्यपरिमिताध्वप्रसङ्गः ॥ १८२९ ॥ १८३० ॥
किंचातीतादयो भावाः क्षणिकाः स्युन वा यदि । आद्याः पुनस्तयोः प्राप्ता सेवापरिमिताध्वता ॥ १८३१ ॥ यः क्षणो जायते तत्र वर्तमानो भवत्यसौ ।
उत्पथ यो विनष्टश्च सोऽतीतो भाव्यनागतः ॥ १८३२ ॥ अपिच–अतीतानागताः क्षणिका वा स्युन वा क्षणिका इति पक्षद्वयम् । तत्र यद्याद्या:-क्षणिका इति यावत् , तदा सैवामिताध्वता प्राप्ता । यः क्षण इति तामेव दर्शयति ॥ १८३१ ॥ १८३२ ॥
अथाप्यक्षणिकास्ते स्युः कृतान्तस्ते विरुध्यते।
क्षणिकाः सर्वसंस्काराः सिद्धान्ते हि प्रकाशिताः॥१८३३॥ अथाक्षणिका इति पक्षा, एवं सति कृतान्तविरोधः कृतान्तः सिद्धान्त पच्यते । तथाहि क्षणिकाः सर्वसंस्कारा इति सिद्धान्तः ॥ १८३३ ॥
युक्तिवापाऽपि सन्तोनियमात्क्षणभगिनः। वर्तमाना इव पाकु प्रतिवन्धोऽत्र सापितः ॥१८५४ ।।