Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 781
________________ प्रथमतरं वा नियतचक्षुरादिविज्ञानसमनन्तरमुदयमासादयन्ती मनोधीरनुभूयत इति । अतोऽप्रतिनियतविज्ञानमात्रभाविनीति सिद्धम् । किंच-यदि प्रथमकाल एव मनोमतेरुपादानकारणं देहो नोत्तरकालं तदा देहनिरपेक्षा सा किं न प्रवर्तेत, नानुपकारिणि देहे तस्याः काचिदपेक्षा युक्ता । यस्यापि तद(वी)बुझ्यन्तरपूर्विका बुद्धिस्तस्यापि केवला किं न प्रवर्तत इति चेन्न । प्रवर्तत एव । यथा विरूपे घातौ । याऽनुरूपे स्पृहावती सा तत्सापेक्षा वर्चत इत्यनुपालम्भ एव । अथोत्तरकालं देहस्याप्युपकारित्वमङ्गीक्रियते तदाऽनेकविज्ञानप्रबन्धप्रसवप्रसङ्गः । शरीरस्यापरविज्ञानो. पादानभूतस्याविकलस्य तन्जनकत्वेनावस्थितत्वात् । तथाहि यद्यदेवोत्पद्यते देहाद्विज्ञानं तत्तदपरं पृथक्पृथग्विज्ञानं सन्तनोतीत्येकस्य प्राणिनः प्रतिक्षणमप्रमेयविज्ञानसन्तानाः प्रसूयेरन् । नचैवमनुभवोऽस्ति । अथापि स्यादुत्तरकालं देहस्य नोपादानकारणत्वेन पृथगुपकारित्वमिष्टम् । किं तर्हि ? । प्रबन्धेन खोपादानतः प्रवर्त्तमानाया मनोधिय उत्तरोत्तरकार्यप्रसवं प्रति सहकारित्वादुपकारी देह इत्यतो न देहनिरपेक्षा सा प्रवर्तत इति । एतदपि मिथ्या । नहि यो यस्य यथा जनकत्वेन प्रसिद्धः स तं जनयन्नन्यथा जनयति विशेषाभावात् । तथाह्यालोकादिरनुपहतचक्षुर्विज्ञानं प्रत्यालम्बनभावेन जनकत्वमनुभूय न पुनस्तस्यान्यथा जनको भवति । यदाह-"प्राह्यताया न खल्वन्यजननं ग्राहलक्षणम् । साक्षान ह्यन्यथा बुद्धे रूपादिरुपकारक” इति । अन्यथा कार्यस्य कारणकृतस्वभावभेदाभेदस्य व्यवस्थानं न स्यात् , तद्गतोपकाराननुविधानात् । ततश्चाहेतुकत्वप्रसङ्गः । नच. प्रथमकालं देहस्य विज्ञानं प्रति साक्षाजनकत्वव्यतिरेकेणान्यदुपादानत्वं त्वया गृहीतम् । किं तर्हि । साक्षादुपकारित्वमेव । तच्चोत्तरकालमप्यस्तीति किं नोपादानकारणं स्यात् । अथान्यत्पूर्वमपि माभूत्पश्चाद्वदविशेषात् । नचोत्तरकालमपि पूर्वविज्ञानसहकारी देह एवोत्तरोत्तरबुद्धेरुपादानं भविष्यतीति शक्यं वक्तुम् , पूर्व विस्तरेणोपादानत्वस्य निषिद्धत्वात् । प्रथमजन्मबुद्धरपि बुद्ध्यन्तरपूर्वकत्वप्रसङ्गात् । अतएवानित्यभूतपक्षेप्येतदाचार्यायं दूषणं सुतरां श्लिष्यति । यदाह-"देहात्सकृदुत्पन्ना धीर्यदि खजात्या नियम्यते। (१) परतश्चेत्समर्थस्य देहस्य विरतिः कुत" इति । तस्मात्सिद्धा मनोबुद्धरनादिता । अथवा सर्वैव बुद्धिरविशेषेणानादिः सिद्धा । तथाहि-आदिबुद्धिर्भवन्ती, अक्षबुद्धिर्वा भवेत् , मनोबुद्धिर्वा । न तावदाद्यः पक्षः, सुप्तमूर्छान्यचित्तानां सत्यप्यक्षेत्रगुणमनस्काराभावादक्षबुद्धेरनुत्पतेः। अतो न केवलमिन्द्रियमक्षबुद्धः कार

Loading...

Page Navigation
1 ... 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832