Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 783
________________ ५३२ तत्त्वसहः। . वा, अव्युत्पन्नस्यापि प्रतीतिप्रसङ्गात् । यथेष्टमर्थेषु नियोगाभावप्रसङ्गाश्च । किंचअनित्यादिरूपेणार्थस्याविशेषेऽपि न विकल्पः सर्वानाकारान्युगपद्विकल्पयति । आकारान्तरव्यवच्छेदेन प्रतिनियतैकाकारोपग्रहेणैव विकल्पस्योत्पत्तेः । अतश्चैकाकारविकल्पेन कारणं वक्तव्यम् । न चाभ्यासाचदन्यद्वक्तुं शक्यम् , यथा कुणपादिविकल्पा-* नाम् । ततश्च पूर्वाभ्यासवशेन विकल्पकस्य प्रवृत्तेरनादिर्विकल्पकबुद्धिरिति सिद्धम् । अथाविकल्पिकेति पक्षस्तदा न कदाचिद्विकल्पिका बुद्धिरुत्पद्यते । प्रोक्तनीत्या सङ्केतवशादुत्तरकालमुत्पद्यत इति चेन्न । निर्विकल्पकज्ञाने स्थितस्य अंशः (पुंसः?) सङ्केतस्य कर्तुमशक्यत्वात् । तथाहि न यावच्छब्दसामान्यमर्थसामान्यं वा बुद्धाववभासते न तावत्सङ्केतः शक्यते कर्तुम् । नच विकल्पे विज्ञाने सामान्यं प्रत्यवभासते । यच प्रत्यवभासते स्खलक्षणं न तत्र तेन वा सङ्केतः क्रियते । व्यवहारार्थत्वात्तस्य । न च सङ्केतकालदृष्टस्य स्खलक्षणस्य व्यवहारकालेऽस्ति संभव इति न स्खलक्षणे सङ्केतकरणात्पूर्व विकल्पोऽवश्याभ्युपगन्तव्यः । स चाभ्यासमन्तरेण न सिद्ध्यतीति सिद्धाऽनादिता । अपि च-यदि पूर्वजन्माभ्यासाहितवासनांन्वयात्प्रथमजन्मभाविनी नेष्यते बुद्धिस्तदा सद्योजातस्य सतः शिशोस्तिर्यग्गतस्यापीदं सुखस्य साधनमिव दुःखस्येति व्यवसायः कथं भवेत् । येन सुखसाधनं स्तनादिकमन्विच्छति । तचालभमानो रोदनमारमते, प्राप्य च सहसा व्यपगतरुदितोऽभ्यवहारादिक्रियां कुरुते । न ह्यनेन कदाचित्स्तनादेः क्षुत्पीडायुपशमनादिहेतुत्वमनुभूतम् । नचापि प्रपातपतनादेरुपहतिकारणता । येन सद्यो जातोऽपि वानरादिशिशुरवपातपतनप्रभवदुःखान्मरणभीतो मातुरतीव क्रोडमाश्लिष्यति, प्रपातादिस्थानं च परिहरति । न घननुभूतेष्टानिष्टसाधनफलानि नियमेन जिहासन्त्युपादित्सन्तेवाऽतिप्रसङ्गात् । अयसोऽयस्कान्तापसर्पणदृष्टान्तोऽप्ययुक्त एव, नहि तनिर्हेतुकं, सर्वदा सत्त्वादिप्रसझात् । सहेतुकत्वे वा यथा तस्य हेतुरयस्कान्तो निर्दिश्यतेऽन्वयव्यतिरेकसिद्धस्तथाऽस्यापि हानोपादानानुष्ठानस्य हेतुर्भाव्यः । नचासो निर्देष्टुं शक्यते, अन्यत्राभ्यासात् । तस्मात्पूर्वाभ्यासकृत एवायं बालानामिष्टानिष्टोपादानपरित्यागलक्षणो व्यवहार इति सिद्धा बुद्धरनादितेत्यमिप्रायः । तथाच स्वतत्रा मानसीयादिना, अपिच स्तनपानादावित्यादिना च साधारणं दूषणं वक्ष्यतीत्यलं बहुना । किंच-तेषांचार्वाकाणां क्षणिकत्वमभ्युपगच्छताम् , खोपगमः-खसिद्धान्तो बाध्यते-भूतानां निलस्वाभ्युपगमो बाध्यते ।) ॥ १८८६ ॥ १८८७ ॥

Loading...

Page Navigation
1 ... 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832