Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 765
________________ तस्वसहः। रिण्यां जातावपेक्षायुक्ताऽतिप्रसङ्गात् । उपकारे वा तस्योपकारस्यातिशयवत्तत्वान्यत्वचिन्तायामनवस्थाप्रसङ्गात् । तस्मान्त्यतिरेके सति सम्बन्धो न सिद्ध्यति । किंच -तस्यातिशयस्य पूर्वमसत्वादसत्कार्यमभ्युपगतं भवेत् । एवं जरयान्यथात्वे क्रियमाणे स्थित्याऽवस्थितेरनित्यतया च नाशे क्रियमाणे, एषामन्यथात्वादीनामन्याऽनन्यविकल्पे सति ये दोषास्ते जातिवजरादिष्वपि वाच्याः ॥ १८२२ ॥ १८२३ ॥ ॥ १८२४ ॥ १८२५ ॥ १८२६ ॥१८२७ ।। १८२८॥ खकार्यारम्भिण इमे सामर्थ्यनियमात्मना। जात्यादयश्च तद्रूपं प्राक्पश्चादपि विद्यते ॥ १८२९ ॥ समर्थरूपभावाच प्रारभन्ते न किं तदा। खानुरूपां क्रियां तस्याः प्रारम्भे चामिताध्वता॥ १८३०॥ किंच-जात्यादीनां स्वकार्यारम्भित्वं यत्तत्समर्थस्वभावनियमादिष्टं, स च समर्थः स्वभावस्तेषां सर्वदाऽस्तीति सदैव स्वकार्यारम्भित्वप्रसङ्गः । नच हेतुप्रत्ययवैकल्यं तेषामपि सदावस्थितत्वात् । ततश्चातीतानागतावस्थयोर्जात्यादिमिर्जननादिस्वकार्यकरणादेकस्मिनेवाध्वन्यपरिमिताध्वप्रसङ्गः ॥ १८२९ ॥ १८३० ॥ किंचातीतादयो भावाः क्षणिकाः स्युन वा यदि । आद्याः पुनस्तयोः प्राप्ता सेवापरिमिताध्वता ॥ १८३१ ॥ यः क्षणो जायते तत्र वर्तमानो भवत्यसौ । उत्पथ यो विनष्टश्च सोऽतीतो भाव्यनागतः ॥ १८३२ ॥ अपिच–अतीतानागताः क्षणिका वा स्युन वा क्षणिका इति पक्षद्वयम् । तत्र यद्याद्या:-क्षणिका इति यावत् , तदा सैवामिताध्वता प्राप्ता । यः क्षण इति तामेव दर्शयति ॥ १८३१ ॥ १८३२ ॥ अथाप्यक्षणिकास्ते स्युः कृतान्तस्ते विरुध्यते। क्षणिकाः सर्वसंस्काराः सिद्धान्ते हि प्रकाशिताः॥१८३३॥ अथाक्षणिका इति पक्षा, एवं सति कृतान्तविरोधः कृतान्तः सिद्धान्त पच्यते । तथाहि क्षणिकाः सर्वसंस्कारा इति सिद्धान्तः ॥ १८३३ ॥ युक्तिवापाऽपि सन्तोनियमात्क्षणभगिनः। वर्तमाना इव पाकु प्रतिवन्धोऽत्र सापितः ॥१८५४ ।।

Loading...

Page Navigation
1 ... 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832