Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 774
________________ पलिकासमेतः। बनादिनिधनः । नर इत्यात्मा । यद्वा नास्तिकता परेत्यनेन परलोकिनोऽभावात्परकोकाभाव इत्येतत्सूत्रं सूचयति ॥ १८६९ ॥ १८७० ॥ १८७१ ॥ .... तदत्रेत्यादिना प्रतिविधत्ते। तदत्र परलोकोऽयं नान्यः कश्चन विद्यते। उपादानतदादेयभूतज्ञानादिसन्ततेः ॥ १८७२ ॥ काचिनियतमर्यादाऽवस्थैव परिकीर्त्यते । तस्याश्वानाद्यनन्तायाः परः पूर्व इहेति च ॥ १८७३ ॥ दृष्टमात्रसुखासक्तैर्यथैतावति कल्प्यते । परलोकोऽन्यदेशादिस्तथाऽत्रास्माभिरुच्यते ॥ १८७४ ॥ यदि तद्व्यतिरिक्तस्तु परलोको निषिध्यते । तदा साधनवैफल्यं तदसत्त्वे विवादतः ॥ १८७५ ॥ सन्ततेनन्ववस्तुत्वान्नावस्थान्तरसम्भवः । तत्रावस्थापितो लोकः परो वा तात्त्विकः कथम् ॥१८७६॥ नैव सन्ततिशब्देन क्षणाः सन्तानिनो हि ते। सामस्त्येन प्रकाश्यन्ते लाघवाय वनादिवत् ॥ १८७७ ।। तत्र कोऽयं परलोको नाम यस्य भवता निषेधः क्रियते, किं विज्ञानादिस्कन्धचतुष्टयादुपादानोपादेयत्वेन कार्यकारणभूतादन्य आहोस्वित्तदेव । न तावदाद्यः पक्षा, तस्यानभ्युपेतत्वात् । नापादानोपादेयभूताया विज्ञानादिसन्ततेरन्यः परलोकोऽवास्ति, यस्याभ्युपगमः स्यात् । किं तर्हि ? । तस्या ज्ञानादिसन्ततेरनाद्यनन्तायाः काचिदेव वर्षशताधवधिरूपमर्यादाव्यवस्थैव परलोकः पूर्व इहेति वा व्यवस्थाप्यते । यथा भवद्भिदृष्टमात्रसुखाभिषङ्गादेतावतीन्द्रियगोचर एवान्यदेशादिः परलोकादित्वेन कल्पते । यथोक्तम्-"एतावानेव पुरुषो यावानिन्द्रियगोचरः, तथा पुनरुक्तदेशान्तरं कालान्तरमवस्थान्तरं वा परलोक" इति । यदि तु कार्यकारणभूतविज्ञानादिसन्तानव्यतिरिक्तस्य परलोकस्य निषेधः क्रियते तदा सिद्धसाध्यत्वात्साधनवैफल्यं, तथाभूतस्य परलोकस्यानभ्युपगतत्वात् । ननु च सन्ततेरवस्तुत्वात्तस्यामवस्थाविशेषो यो व्यवस्थापितः सोप्यवस्त्वेव,. ततश्च तत्र तस्यां सन्तताववस्थाविशेषेऽवस्थापितोऽयं परलोकोऽपि न पारमार्थिकः स्यात् । नैष दोषः । सन्ततिशब्देन क्षणा एव वस्तु

Loading...

Page Navigation
1 ... 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832