Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 776
________________ पत्रिकासमेतः। नवर्विज्ञानहतुकं वेति पश्च पक्षाः । यदि हि स्वसन्तानवर्तिपूर्वपूर्वज्ञानहेतुकं पूर्व मेव चित्तं स्यात्तदा स्यादनादिता चित्तसन्ततेर्नान्यथेत्यभिप्रायेणैषां पक्षाणामुपन्यासः। तत्र न तावदाद्यः पक्षो नित्यसत्त्वादिप्रसङ्गात् । अपेक्षया हि भावा: 'कादाचित्का भवन्ति, यश्च निर्हेतुकः स न किंचिदपेक्ष्यत इति किमिति विरमेत । नापि द्वितीयपक्षोऽत एव नित्यसत्त्वप्रसङ्गात् । कारणवैकल्याद्धि कार्याणामसत्त्वं, यबाविकलकारणं तत्किमिति न भवेदिति वक्तव्यम् । नापि तृतीयः पक्षः, कस्मात् ?, सदभावत:-सदा सत्त्वाभावतः। एकमित्यादिना तमेव तदभावं दर्शयति । अनेन प्रतिक्षायाः प्रत्यक्षे विरोधमाह । क्षोणीत्यादिना चतुर्थ पक्षं निराकरोति । क्षोणी -पृथिवी । नित्येश्वरादिहेतुसमुद्भवपक्षवदत्रापि तुल्यो दोषः, यतो महाभूतचतुष्टयं परैनित्यमिष्टम् । नच सहकारिकारणापेक्षणानुक्रमेण नित्यादुत्पत्तिरिति युक्तं वक्तुम् , नित्यस्यानुपकारिणि सहकारिणि नापेक्षेति निर्लोठितप्रायत्वात् ॥ १८७८ ॥ ॥ १८७९ ॥ १८८० ॥ १८८१ ॥ १८८२ ॥ १८८३ ॥ १८८४ ॥ १८८५॥ अथ क्षणिकमेवेदं परैरप्यभिधीयते। कथं खोपगमस्तेषामेवं सति न बाध्यते ॥ १८८६ ॥ बाध्यतां काममेतत्तु न्याय्यमित्युपगम्यते । क्षणिकं सर्वयुक्तिभ्यः सर्वभावविनिश्चितम् ॥ १८८७ ॥ अथेदं महाभूतचतुष्टयं परैश्चार्वाकैः क्षणिकमभ्युपगम्यते यथोक्तदोषभयात् तदाऽपि दोष एवेत्यभिप्रायः । तथाहि न तावद्बुद्धिदेहयोः कार्यकारणभावसिद्धौ किंचित्प्रमाणमस्ति, परस्य येन तद्व्यवहारः सिद्ध्येत् । प्रयोग:-यत्र यद्भावसिद्धी न किंचित्प्रमाणमस्ति न तत्र तद्व्यवहारः प्रेक्षावता कार्यः, यथा वही शीतव्यवहारः । नास्ति च बुद्धिदेहयोः कार्यकारणभावसिद्धौ किंचित्प्रमाणमिति व्यापकानुपलब्धिः । नचासिद्धता हेतोः, तथाहि-प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः स चान्वयान्यतिरेकाद्वा विशिष्टादेव निश्चीयते, न दर्शनादर्शनमात्रेण । तत्रान्वयाकार्यनिश्चये कर्तव्ये येषामुपलम्भे सत्युपलब्धिलक्षणप्राप्तं पूर्वमनुपलब्धं सदुपलभ्यत इत्येवमाश्रयणीयम् , अन्यथा हि यद्युपलब्धिलक्षणप्राप्तमनुपलब्धमित्येवं नापेक्षेत, तदा तत्र कार्यस्य प्रागपि सत्त्वमन्यतो वा देशेऽपगमनं (सम्भाव्येत) । बेन कारणात्मागवस्थिताः फुट्यादयस्तेषां कारणता न निषिद्धा स्यात् । उपलब्धिलक्षण,

Loading...

Page Navigation
1 ... 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832