Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 742
________________ पलिकासमेतः। तद्भावनाप्यतद्भावः परस्परविरोधतः।। एकवस्तुनि नैकायं कथञ्चिदवकल्प्यते ॥ १७२९ ॥ यत्तदेतदिति तत्त्वेन विधीयते तदेकमित्युच्यते, यथा चैतन्यपुरुषयोः । वस्तुनः सतस्तत्त्वनिषेधे नानात्वं, यथा भूतचैतन्ययोः । ततश्च विधिप्रतिषेधयोरेकत्रायोगातद्भावलक्षणात्तदावलक्षणयोरेकत्वनानात्वयोः परस्परविरोध इति कल्पित एवैकल्ल धर्मभेदः ॥ १७२८ ॥ १७२९॥ कथं तद्भावातद्भावयोर्विरोध इत्याह-विधानेत्यादि । विधानप्रतिषेधौ हि परस्परविरोधिनौ । शक्यावेकत्र नो कर्तुं केनचित्वस्थचेतसा ॥ १७३० ॥ स्यादेतत्-धर्मभेदकल्पनायाः किं निबन्धनम् , अवश्यं चास्या मिन्नेन निबन्धनेन भाव्यम् , अन्यथा वस्तुसाकर्य स्यात् । ततश्च यत्तद्भिनं निबन्धनं स एव च पारमार्थिको धर्मभेदोऽस्माकमित्याह-सजातीयेयादि । सजातीयविजातीयानेकव्यावृत्तवस्तुनः । ततस्ततः परावृत्तेधर्मभेदस्तु कथ्यते ॥ १७३१ ॥ एकस्यापि ततो युक्ता कल्पितासङ्ख्यरूपता । वास्तवं नैकभावस्य द्वैरूप्यमपि सङ्गतम् ॥ १७३२॥ सजातीयविजातीयं च तदनेकं चेति कर्मधारयः, तस्माद्व्यावृत्तं च तद्वस्तु चेति विग्रहः । तस्यैकस्य वस्तुनः, ततस्ततः-सजातीयाद्विजातीयाच, या परावृत्तिः, सा धर्मभेदव्यवस्थाया निबन्धनम् । तस्माद्यतः कल्पिताऽप्यनेकता सम्भवति, तस्माद्वा. स्तवं द्वैरूप्यमेकस्य न सङ्गतम् । अपिशब्देन सामान्येन धर्मभेदपूर्वकत्वमात्रे साध्ये सिद्धसाध्यतामपि सूचयति ॥ १७३१ ॥ १७३२ ।। स्यादेतत्-नरसिंहादिमिरनेकान्तः, तथाहि नरसिंहादय एकखभावा अपि भाविकेन द्वरूप्येणाविरुद्धाः समुपलभ्यन्त इत्याह-नरसिंहादय इति । नरसिंहादयो ये हि द्वैरूप्येणोपवर्णिताः । तेषामपि द्विरूपत्वं भाविकं नैव वियते ॥ १७३३ ॥ स बनेकाणुसन्दोहखभावो नैकरूपवान् । यचित्रं न तदेकं हि नानाजातीयरनवत् ॥ १७३४ ॥

Loading...

Page Navigation
1 ... 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832