________________
पलिकासमेतः। तद्भावनाप्यतद्भावः परस्परविरोधतः।।
एकवस्तुनि नैकायं कथञ्चिदवकल्प्यते ॥ १७२९ ॥ यत्तदेतदिति तत्त्वेन विधीयते तदेकमित्युच्यते, यथा चैतन्यपुरुषयोः । वस्तुनः सतस्तत्त्वनिषेधे नानात्वं, यथा भूतचैतन्ययोः । ततश्च विधिप्रतिषेधयोरेकत्रायोगातद्भावलक्षणात्तदावलक्षणयोरेकत्वनानात्वयोः परस्परविरोध इति कल्पित एवैकल्ल धर्मभेदः ॥ १७२८ ॥ १७२९॥ कथं तद्भावातद्भावयोर्विरोध इत्याह-विधानेत्यादि ।
विधानप्रतिषेधौ हि परस्परविरोधिनौ ।
शक्यावेकत्र नो कर्तुं केनचित्वस्थचेतसा ॥ १७३० ॥ स्यादेतत्-धर्मभेदकल्पनायाः किं निबन्धनम् , अवश्यं चास्या मिन्नेन निबन्धनेन भाव्यम् , अन्यथा वस्तुसाकर्य स्यात् । ततश्च यत्तद्भिनं निबन्धनं स एव च पारमार्थिको धर्मभेदोऽस्माकमित्याह-सजातीयेयादि ।
सजातीयविजातीयानेकव्यावृत्तवस्तुनः । ततस्ततः परावृत्तेधर्मभेदस्तु कथ्यते ॥ १७३१ ॥ एकस्यापि ततो युक्ता कल्पितासङ्ख्यरूपता ।
वास्तवं नैकभावस्य द्वैरूप्यमपि सङ्गतम् ॥ १७३२॥ सजातीयविजातीयं च तदनेकं चेति कर्मधारयः, तस्माद्व्यावृत्तं च तद्वस्तु चेति विग्रहः । तस्यैकस्य वस्तुनः, ततस्ततः-सजातीयाद्विजातीयाच, या परावृत्तिः, सा धर्मभेदव्यवस्थाया निबन्धनम् । तस्माद्यतः कल्पिताऽप्यनेकता सम्भवति, तस्माद्वा. स्तवं द्वैरूप्यमेकस्य न सङ्गतम् । अपिशब्देन सामान्येन धर्मभेदपूर्वकत्वमात्रे साध्ये सिद्धसाध्यतामपि सूचयति ॥ १७३१ ॥ १७३२ ।।
स्यादेतत्-नरसिंहादिमिरनेकान्तः, तथाहि नरसिंहादय एकखभावा अपि भाविकेन द्वरूप्येणाविरुद्धाः समुपलभ्यन्त इत्याह-नरसिंहादय इति ।
नरसिंहादयो ये हि द्वैरूप्येणोपवर्णिताः । तेषामपि द्विरूपत्वं भाविकं नैव वियते ॥ १७३३ ॥ स बनेकाणुसन्दोहखभावो नैकरूपवान् । यचित्रं न तदेकं हि नानाजातीयरनवत् ॥ १७३४ ॥