________________
तस्वसहः।
ऐक्ये स्थान द्विरूपत्वान्नानाकारावभासनम् । . मक्षिकापदमात्रेऽपि पिहितेऽनावृतिश्च न ॥ १७३५ ॥ आदिशब्देन मेचकरमादिपरिप्रहः । स हीति । नरसिंहः । सन्दोहः-समूहः। रूपमस्सास्तीति रूपवान् । एकेन रूपवानिति विप्रहः । अनेन दृष्टान्तस्य प्रतिवाद्य-' सिद्धतामाह । नहि बौद्धं प्रति नरसिंह एकोऽवयवी सिद्धः, अनेकाणुसमूहत्वात् । तत्रैकत्वनिराकरणे प्रमाणमाह-यचित्रं न तदेकं, यथा नानाजातीयरबसमूहः, चित्रश्च नरसिंह इति, खभावविरुद्धोपलम्भो व्यापकविरुद्धस्य वा । ऐक्ये सति द्विरूपत्वनिमित्तनानाकारावभासानुपपत्तिर्बाधकं प्रमाणम् , प्रतिभासभेदनिबन्धनत्वाद्रेदव्यवस्थायाः । एकदेशावरणे सर्वावरणप्रसङ्गश्च बाधकं प्रमाणम् , न होकस्यावृतत्वमनावृतत्वं चेति युगपद्विरुद्धधर्मसंसर्गों युक्तः ॥ १७३३ ॥१७३४ ॥ १७३५ ॥
यद्यनेकाणुसमूहमात्रं नरसिंहः कथं तर्हि द्विरूपानुगतैक(क)स्त्वध्यवसायी प्रत्यय इत्याह-नृसिंहेत्यादि ।
नृसिंहभागानुस्यूतप्रत्यभिज्ञानहेतवः। ते चाणवः प्रकृत्यैव विशिष्टप्रत्ययोद्भवात् ॥ १७३६ ॥ एतेनैव प्रकारेण चित्ररत्नादयो गताः।
नानात्मना हि वैचित्र्यमेकत्वेन विरुध्यते ॥१७३७ ॥ नृसिंहयोर्ये भागास्तैरनुस्यूतं निर्भासीकृतं यत्प्रत्यभिज्ञानं तत्तथोक्तम् , एवम्भूतस्य प्रत्यमिझानस्य यदा प्रकृत्यैव त एवाणवो हेतवो भवन्ति, तदा किमपरमवयविना कल्पितेन । सा च तादृशी प्रकृतिः कुतस्तेषामिति चेदाह-विशिष्टप्रत्ययोद्भवात्
-विशिष्टात्कारणादुत्पत्तेः । तत्र विशिष्टः प्रत्ययो गतिविशेषसंवर्तनीयं कर्म, वजातिसमुद्भूतः कललादिश्च । अनेनैव नरसिंहविचारेण मेचकरनादयो गताः-व्याख्याताः, इति न तेषां पृथक् दूषणं वक्तव्यम् ॥ १७३६ ॥ १७३७ ॥ यदुक्तम्-"सर्व च वस्तुरूपेण मिद्यते न परस्पर"मित्यत्राह
अर्थक्रियासमर्थत्वं वस्तुत्वमभिधीयते । यदि तस्यानुगामित्वं सर्व स्यात्सर्वकार्यकृत् ॥ १७३८ ॥ एकोऽर्थजनकस्तस्य भावः सामर्थ्ययोगतः। समाविशिष्टमन्यसिमित्यनुत्पादकः कथम् ॥ १७३९॥