________________
पलिकासमेतः। नीलायेव च वस्तुस्वमनुगामि यदीप्यते । सितपीताद्यपि प्राप्तं नील(सं)साध्यकार्यकृत् ॥ १७४०॥ एकमेव ततो जातं द्वितीयात्मविवर्जितम्। सर्व विश्वमतो नैकमनेकाकारमस्ति नः ॥ १७४१ ॥ तदेव चेन्न वस्तुवं कणाशिमतसत्त्ववत् । नैकस्यानेकरूपत्वमेव वः स्याद्विभेदतः ॥ १७४२ ॥ विरुद्धधर्मसङ्गश्च वस्तूनां भेदलक्षणम् । कथञ्चिदन्यथेष्टोपि न भेदो नीलपीतयोः ॥ १७४३ ॥ अनुगाम्यन्यथाभावात्स च सामान्यभेदयोः।
विद्यते तत्कथं नास्ति तयोर्भेदः परिस्फुटम् ॥ १७४४ ॥ अर्थक्रियाकारि यद्रूपं तद्वस्तुत्वमुच्यते नान्यत् , तश्चेत्सर्वत्रानुगामि सर्व सर्वार्थक्रियाकारि प्राप्नोति तेनैव हि रूपेण सर्वे जनका इष्यन्ते । तस्य च सर्वत्राविशिष्टत्वादिति यत्किंचिद्यतः कुतश्चिदुत्पद्येत । किंच यदेतन्नीलपीतादि, तदेव किं वस्तुस्वमाहोखिदन्यत् । यदि तदेव तदा तस्यानुगामित्वात्सितपीताद्यपि नीलसाध्यवस्त्ररखनाद्यर्थक्रियाकारि प्राप्नोति । अपिच द्वितीयस्य स्वभावस्थाभावात्सर्व जगदेकमेव वस्तुजातमिति, एकमनेकाकारमिति प्रतिज्ञानार्थहानिः स्यात् । अथान्यदेव वस्तुत्वं नीलादिभ्यः, कणादामिमतसत्त्ववत् । यथा कणाशिनः कणादस्य, अमिमतं सत्ताख्यं व्यतिरिक्तं वस्तुत्वं नामेति । एवमपि सुतरामेकस्यानेकत्वमयुक्तम् , एकान्तेनैव भेदात् । किंच-यौ विरुद्धधर्मसंसर्गिणौ तौ मिन्नौ यथा शीतोष्णौ, विरुद्धधमसंसर्गश्च सामान्यविशेषयोर्विद्यतेऽनुगाम्यन्यथाभावादिति स्पष्ट एव तयोर्भेदः । अन्यथाभावः-अननुगामित्वम् । यदि च विरुद्धधर्मसंसर्गेऽपि भेदो नेष्यते, तदा नीलपीतयोर्योऽप्ययं कथंचिदविशेषरूपेण भेद इष्टः स न स्यात् "बुद्धिभेदान्न चैकत्वं रूपादीनां प्रसज्यत" इति वचनात् कुमारिलेन नीलादीनां भेदस्योपवर्णितत्वात् ॥ १७३८ ॥ १७३९ ।। १७४० ॥ १७४१ ॥ १७४२ ॥ १७४३ ॥ १७४४॥ यथेत्यादिना कौमारिलमतेन पुनरप्यनैकान्तिकत्वमुद्भावयति ।
यथा कल्माषवर्णस्य यथेष्टं वर्णनिग्रहः। चित्रत्वाद्वस्तुनोऽप्येवं भेदाभेदावधारणे ॥ १७४५॥ ।