________________
४९४
तत्त्वसमहः। यदा तु शबलं वस्तु युगपत्प्रतिपद्यते। - तदाऽन्यानन्यभेदादि सर्वमेव प्रलीयते ॥ १७४६ ॥
कल्माषवर्णः-शबलो वर्णः । तस्य यथा नीलमिति वा पीतमिति वा लोहितमिति वेत्यादिना यथेष्टं वर्णनिग्रहो-रूपावधारणं, तथा चित्रस्य-अनेकरूपस्य वस्तुनः स्वपररूपाभ्यां सदसदात्मनः सामान्यविशेषरूपाभ्यां व्यात्मन इच्छावशाहे. दाभेदावधारणे । यदा भेदमवधारयितुमिच्छति तदा तमवधारयति, यदा तु युगपसामान्यविशेषात्मकं वस्तु कु(झ?)गिति प्रतिपद्यते तदाऽन्यानन्यभेदादिचोधं प्रलीयते। नावतरतीत्यर्थः । प्रत्यक्षेण शबलस्य वस्तुनः प्रतीयमानत्वात् । तत्रेदमन्यानन्यादिचोद्यम्-मिन्नेभ्योऽश्वादिपिण्डेभ्योऽनन्यत्वात्सामान्यस्यापि पिण्डवत्स्वरूपभेदप्रसङ्गः, सामान्याद्वाप्यमिन्नत्वादभेदो भेदानां सामान्यस्येव प्रसज्यते । तथा भेदाभेदौ परस्परं सामान्यविशेषयोः कथं विरुद्धौ स्याताम् । आदिशब्देनैकत्वानेकत्वे परस्परविरुद्धे, तथा तदेव सामान्यं स एव विशेष, इत्येवमादि ग्रहीतव्यम् ॥ १७४५ ॥ ॥ १७४६॥
यद्येवं सर्वत्रैव शबलस्य प्रतीतिः स्यानतु क्रमयोगपद्याभ्यामित्याशङ्कयाह-वस्तुन इत्यादि ।
वस्तुनोऽनेकरूपस्य रूपमिष्टं विवक्षया ।
युगपत्क्रमवृत्तिभ्यां नान्योस्ति वचसां विधिः॥ १७४७ ।। युगपत् क्रमेण वा यदस्य सामान्यविशेषादिरूपं व्यवस्थाप्यते, तद्विवक्षावशात् । यदा यौगपद्येन सदसद्रूपे विवक्षति सामान्यविशेषरूपं वा तदा तस्य रूपं व्यवस्थाप्यते । अथ क्रमेण विवक्षति सद्रूपमसद्रूपं सामान्यविशेष वा तदाऽस्य तद्व्यवस्थाप्यते । सर्वमेव हि तस्य स्वरूपं क्रमाक्रमाभ्यां व्यपदिश्यते, विचित्ररत्नकोश इव मरकतपद्मरागादिरिति । अथ क्रमाक्रमौ मुक्त्वाऽन्येन प्रकारेण कस्मान्न निर्दिश्यत इत्याह-नान्योऽस्ति वचसां विधिरिति । युगपत्क्रमवृत्तिभ्यामित्यपेक्षणीयम् । विधिः-प्रकारः ॥ १७४७ ॥ नैवमित्यादिना प्रतिविधत्ते ।
नैवं चित्रखमेकत्वं प्रतिषिद्धं घनन्तरम् । अनेकरूपं वैचित्र्यमेकवेनासहस्थितम् ॥ १७४८ ॥