________________
पविकासमेतः।
४९५ ते हि यावन्त आकारास्तस्मिन्वस्तुनि भाविकाः। तावन्त्येवा(थ) जातानि वस्तुनीत्येकनास्ति(ता स्थि)ता१७४९॥ एकं चित्रमिति परस्परविरुद्धमेतदिति 'यच्चित्रं न तदेक'मित्यादिना प्रतिपादिम् । यतो विचित्रमित्यनेकत्वमुच्यते । एकत्वानेकत्वयोश्च परस्परपरिहारस्थितिलक्षणो विरोधः । तस्मान्नैकस्मिन्माविका बहव आकाराः सम्भवन्ति । अथापि स्युस्तथाप्येकस्यानेकत्वं न प्रतिपादितमेव तथाहि तावन्येवापराणि वस्तूनि जातानीति । यदि परं भाविकत्वेन प्रतिपादितं स्यात् । न त्वेकस्यानेकत्वं, परस्परविरोधात् ॥ १७४८ ॥ १७४९॥
यदुक्तं-'वस्तुनो हि निवृत्तस्य काऽन्या सम्भाविनी गति"रित्यत्राह-एकस्मादित्यादि।
एकस्माद्वस्तुनोऽन्यत्वे तादात्म्यविकलं भवेत् ।
नाकाशपुष्पसङ्काशं तद्ध्यप्यर्थक्रियाक्षमम् ॥ १७५० ॥ यदि हि वस्तुमात्रात्परावृत्तिहेतुत्वेन क्रियते खपुष्पाविशेषत्वे साध्ये तदा हेतुरसिद्धः, नहि घटस्य वस्तुमात्राद्व्यावृत्तिः सिद्धा, किं तर्हि ?, स्वस्वभावं मुक्त्वाऽन्यस्माद्वस्तुविशेषात् । अथ वस्तुविशेषाद्यावृत्तिहेतुत्वेनोपादीयते तदाऽनैकान्तिको हेतुः । तथाहि-एकस्माद्धटादेर्वस्तुनो व्यावृत्तं घटादिकं वस्तु परतादात्म्यविकलं सियेनतु सर्वथा निःस्वभावं तस्याप्यर्थक्रियाकारित्वात् ॥ १७५० ॥ शक्तमित्यादिनैतदेवानैकान्तिकत्वं समर्थयते ।
शक्तं रूपं न चैकस्य वस्तुष्वन्येषु वर्तते । कार्योपलम्भनिर्भासभेदादेरिति वर्णितम् ॥ १७५१ ॥ अतद्वस्त्वात्मकत्वं तु तदश्लेषेण युज्यते।
नाविशेषमवस्तुत्वं वस्तुलक्षणभावतः ॥ १७५२॥ यदि पर्थक्रियासामर्थ्यलक्षणं वस्तुत्वं नामानुयायि स्यात्ततो व्यावृत्तस्य निःखभावता स्यादर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः, यावता शक्तं रूपं यदेकस्य नीलादेस्तदन्येषु सितादिषु न वर्तत इति पूर्वमुक्तम् , “नीलायेव च वस्तुत्वमनुगामि यदी. ध्यत” इत्यादिना । कस्मात् ? । कार्यभेदादुपलम्भनिर्भासभेदाच । उपलम्भो ज्ञानं तस्म निर्भास आकारः । आदिशब्देनोत्पादस्थितिनिरोधादयो गृह्यन्ते । तस्मात्तदश्ले