________________
१९६
तस्वसहाः। षेण हेतुनाऽतद्वस्त्वात्मकमित्येव साधयितुं युज्यते, नाविशेष-निर्विशेषणम् , अवस्तुत्वं साधयितुं युक्तम् । कुतः । तत्राप्यर्थक्रियाकारित्वस्य वस्तुलक्षणस्य भावात् ॥ १७५१ ॥ १७५२ ॥ ___ ननु चात्यन्तभेदे सति कथमनुगामी वस्तुवस्त्विति प्रत्ययो भवेत् । कथं च खपुष्पा दो वस्तुनः सिद्ध्यति । यदि सादृश्यं न भवेदित्याह-तदपीत्यादि ।
तदप्यर्थक्रियायोग्यमिति वस्त्विति कल्पने। . असमर्थपरावृत्तिः सादृश्यं तद्विकल्पितम् ॥ १७५३ ॥ ततश्चात्यन्तभेदेऽपि तुल्यताऽस्ति विकल्पिता।
भावो भावान्तरैस्तुल्यः खपुष्पात्तद्विशिष्यते ॥ १७५४ ॥ असमर्थपरावृत्तिरिति । असमर्थाः-वन्ध्यासुतादयः, तेभ्यः परावृत्तिरतदात्मता । यतश्च सादृश्यं कल्पितमस्ति, तस्माद्यदुक्तं "भावो भावान्तरातुल्य" इति तदसिद्धम् ॥ १७५३ ॥ १७५४ ॥ नन्वित्यादिना सुमतेश्वोद्यमाशङ्कते ।
ननु येनात्मना वस्तु समानापरवस्तुनः । व्यावृत्तं तत्सजातीयैस्तेनैव सदृशं यदि ॥ १७५५ ॥ विज्ञायेत विजातीयैरपि तुल्यतया तदा । तस्यात्मनोऽविशिष्टत्वान्न च तज्ज्ञायते तथा ॥ १७५६ ॥ सजातीयासमानोऽपि तस्मायेन भवत्ययम् ।
आत्मना तत्समानश्च तयोर्भेदः खभावयोः ॥ १७५७ ॥ स आह-येनात्मना सजातीयविजातीयाभ्यां व्यावृत्तं वस्तु तेनैवात्मना तद्वस्तु यदि सजातीयैः सदृशं भवेत्तदा विजातीयैरपि तुल्यतया विज्ञायेत, तस्यात्मनोऽवि. शिष्टत्वात् । नच ज्ञायते । तस्मायेन स्वभावेन सजातीयासमानोपि भवति, येन च खभावेन तत्सदृशो भवति तयोः स्वभावयोर्भेदोऽमिवाञ्छितव्यः । ननु स यदि सजातीयः कथं तेनासमानो भवति, अथ तेनासमानो भवति कथं सजातीय, इति परस्परव्याहतमेतत् । नैष दोषः । यतः परेण सर्वमेव वस्तु सामान्यविशेषात्मकमिष्टम् , तस्माद्वस्तुत्वादिना सामान्येन सर्वमेव सजातीयमित्युच्यते, विशेषरूपेण तदेव विजातीयमिष्टमिति, तदपेक्षया पुनरसमान इत्यभिधीयत इत्यदोषः । समाना